ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
सहकार्यन्तरविधिरितिविद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात्ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम्नैष दोषः, मुनिशब्दस्य ज्ञानातिशयार्थत्वात् , मननान्मुनिरिति व्युत्पत्तिसम्भवात् , मुनीनामप्यहं व्यासः’ (भ. गी. १० । ३७) इति प्रयोगदर्शनात्ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयतेगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्इत्यत्र, ‘वाल्मीकिर्मुनिपुङ्गवःइत्यादिषु व्यभिचारदर्शनात्इतराश्रमसन्निधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् , ज्ञानप्रधानत्वादुत्तमाश्रमस्यतस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयतेयत्तु बाल्य एव विधेः पर्यवसानमिति, तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयतेमुनिः स्यादितिनिर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम्तद्वतः विद्यावतः संन्यासिनःकथं विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात्आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायअथ भिक्षाचर्यं चरन्तिइतिननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिनाइत्यत आहपक्षेणेतिएतदुक्तं भवतियस्मिन्पक्षे भेददर्शनप्राबल्यात् प्राप्नोति, तस्मिन् एष विधिरितिविध्यादिवत्यथादर्शपूर्णमासाभ्यां स्वर्गकामो यजेतइत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥

अपूर्वत्वमसिद्धमिति शङ्कते -

नन्विति ।

पण्डितशब्दस्य ज्ञानमात्रार्थत्वान्मुनिशब्दस्य तदतिशयगामित्वादर्थभेदान्न पण्डितशब्देन मुनिशब्दस्य प्राप्तार्थतेत्याह -

नेत्यादिना ।

वृद्धप्रयोगाभावे कथं तदर्थत्वं, तत्राह -

मुनीनामिति ।

आश्रमेऽपि प्रयोगदर्शनादनियतं ज्ञानातिशयवाचित्वं तस्य चान्यत्र विधानादनुवाद्यत्वमेविति शङ्कते -

नन्विति ।

उत्तमाश्रमे मुनिशब्दोऽसाधारणः साधारणो वेति विकल्प्याद्यं प्रत्याह -

नेति ।

साधारणत्वं त्वेकस्यानेकार्थत्वायोगादयुक्तमित्यभिप्रेत्य प्रयोगस्यान्यथासिद्धिमाह -

इतरेति ।

मौनस्यापूर्वत्वमुपपाद्य तृतीयमिति पदं व्याकुर्वन्फलितमाह -

तस्मादिति ।

वाक्यभेदप्रसङ्गादेकत्रैव विधिरित्युक्तं, तत्राह -

यत्त्विति ।

उपरिधारणवन्मौनं वाक्यभेदेन विधेयमित्यत्रैव हेत्वन्तरमाह -

निर्वेदनीयत्वेति ।

कस्येदं मौनं विद्यासहकारितया विधीयते, तत्राह -

तद्वत इति ।

विशेषणप्रापकं पृच्छति -

कथमिति ।

प्रकरणं तथेत्याह -

तदिति ।

पक्षेणेति पदं शङ्कोत्तरत्वेनावतारयति -

नन्वित्यादिना ।

ब्रह्मैव प्रत्यगद्वयं वस्तु द्वैतं सर्वमविद्यामयमिति शास्त्रयुक्तिभ्यां सिद्धे तत्साक्षात्कारसाधनाभ्यासे स्वयमेव पुरुषस्यौन्मुख्यादनर्थको विधिरिति चोदिते सन्यासप्रकरणात्तद्धर्मस्य श्रवणादेः साक्षात्कारहेतुभावस्यापूर्वत्वादेष्टव्यस्तद्विधिरिति समाधिः ।

विद्यावन्तमधिकारिविशेषं प्रति विधेरानर्थक्यमुक्तमित्याशङ्क्य विद्यावत इति विद्यातिशययुक्तो नोच्यते किन्तु विद्योदयाय तदुपायाभ्यासे प्रवृत्तस्तेनास्य पक्षे कदाचिद्भेददर्शनं प्राप्नोत्यतो विधेरर्थवत्तेति सूत्रपदार्थं विवृणोति -

एतदिति ।

अतन्निष्ठवाक्यस्य तद्विधायकत्वे दृष्टान्तमाह -

विध्यादिवदिति ।

तदेव व्याचष्टे -

यथेति ।

आदिर्मुख्यं प्रधानं विधेरादिर्विध्यादिर्दर्शपूर्णमासविधिः समिदादिस्तु विध्यन्तस्तत्राश्रुतविधिकेऽ विधिरास्थेय इत्यर्थः ।

दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति -

एवमिति ॥ ४७ ॥