अपूर्वत्वमसिद्धमिति शङ्कते -
नन्विति ।
पण्डितशब्दस्य ज्ञानमात्रार्थत्वान्मुनिशब्दस्य तदतिशयगामित्वादर्थभेदान्न पण्डितशब्देन मुनिशब्दस्य प्राप्तार्थतेत्याह -
नेत्यादिना ।
वृद्धप्रयोगाभावे कथं तदर्थत्वं, तत्राह -
मुनीनामिति ।
आश्रमेऽपि प्रयोगदर्शनादनियतं ज्ञानातिशयवाचित्वं तस्य चान्यत्र विधानादनुवाद्यत्वमेविति शङ्कते -
नन्विति ।
उत्तमाश्रमे मुनिशब्दोऽसाधारणः साधारणो वेति विकल्प्याद्यं प्रत्याह -
नेति ।
साधारणत्वं त्वेकस्यानेकार्थत्वायोगादयुक्तमित्यभिप्रेत्य प्रयोगस्यान्यथासिद्धिमाह -
इतरेति ।
मौनस्यापूर्वत्वमुपपाद्य तृतीयमिति पदं व्याकुर्वन्फलितमाह -
तस्मादिति ।
वाक्यभेदप्रसङ्गादेकत्रैव विधिरित्युक्तं, तत्राह -
यत्त्विति ।
उपरिधारणवन्मौनं वाक्यभेदेन विधेयमित्यत्रैव हेत्वन्तरमाह -
निर्वेदनीयत्वेति ।
कस्येदं मौनं विद्यासहकारितया विधीयते, तत्राह -
तद्वत इति ।
विशेषणप्रापकं पृच्छति -
कथमिति ।
प्रकरणं तथेत्याह -
तदिति ।
पक्षेणेति पदं शङ्कोत्तरत्वेनावतारयति -
नन्वित्यादिना ।
ब्रह्मैव प्रत्यगद्वयं वस्तु द्वैतं सर्वमविद्यामयमिति शास्त्रयुक्तिभ्यां सिद्धे तत्साक्षात्कारसाधनाभ्यासे स्वयमेव पुरुषस्यौन्मुख्यादनर्थको विधिरिति चोदिते सन्यासप्रकरणात्तद्धर्मस्य श्रवणादेः साक्षात्कारहेतुभावस्यापूर्वत्वादेष्टव्यस्तद्विधिरिति समाधिः ।
विद्यावन्तमधिकारिविशेषं प्रति विधेरानर्थक्यमुक्तमित्याशङ्क्य विद्यावत इति विद्यातिशययुक्तो नोच्यते किन्तु विद्योदयाय तदुपायाभ्यासे प्रवृत्तस्तेनास्य पक्षे कदाचिद्भेददर्शनं प्राप्नोत्यतो विधेरर्थवत्तेति सूत्रपदार्थं विवृणोति -
एतदिति ।
अतन्निष्ठवाक्यस्य तद्विधायकत्वे दृष्टान्तमाह -
विध्यादिवदिति ।
तदेव व्याचष्टे -
यथेति ।
आदिर्मुख्यं प्रधानं विधेरादिर्विध्यादिर्दर्शपूर्णमासविधिः समिदादिस्तु विध्यन्तस्तत्राश्रुतविधिकेऽ विधिरास्थेय इत्यर्थः ।
दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति -
एवमिति ॥ ४७ ॥