ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः अभिसमावृत्य कुटुम्बे’ (छा. उ. ८ । १५ । १) इत्यत्र ? तेन हि उपसंहरन् तद्विषयमादरं दर्शयतिइत्यत उत्तरं पठति

बाल्यादिप्रधानः संन्यासो यद्यनुष्ठेयस्तर्हि कस्माद्गार्हस्थ्येनोपसंहरति श्रुतिरित्यनन्तरसूत्रव्यावर्त्यमाह -

एवमिति ।

गृहिणोपसंहारेऽपि कैवल्याश्रमस्य किं जातमित्याशङ्क्यानास्थाविषयत्वं प्राप्तमित्याह -

तेनेति ।

बहुलायाससाध्यधर्मबाहुल्यात्तेनोपसंहारो न तेनैव समापनादित्याह -

अत इति ।