ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
यथा मौनं गार्हस्थ्यं एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वानप्रस्थगुरुकुलवासौदर्शिता हि पुरस्ताच्छ्रुतिःतप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ (छा. उ. २ । २३ । १) इत्याद्यातस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिःइतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वाइति द्रष्टव्यम् ॥ ४९ ॥

मौनं गार्हस्थ्यमित्याश्रमद्वयोक्तेरितराश्रमाभावाशङ्का कस्यचिद्भवेत्तन्निरासार्थमाह -

मौनवदिति ।

कथं तयोः श्रुतिमत्त्वं, तत्राह -

दर्शितेति ।

श्रुतिमत्त्वाविशेषे फलितमाह -

तस्मादिति ।

इतरेषामिति बहूक्त्या गार्हस्थ्यस्यापि परामर्शो न तु सिद्धवदुपन्यास इत्याशङ्क्याह -

इतरेषामितीति ।

गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारी चतुर्विधः । गृहस्थोऽपि वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोरसंन्यासीति चतुर्विधः । वानप्रस्थश्च वैख्यानसौदुम्बरवालखिल्यफेनपप्रभेदैश्चतुर्विधः । तथा परिव्राडपि कुटीचकबहूदकहंसपरमहंसभेदैश्चतुर्विध इति षोडशप्रभेदास्तावदाश्रमास्तत्तद्धर्मविशेषयुक्ताः श्रुतिस्मृतिप्रसिद्धाः । ततो ब्रह्मचारिणि वानप्रस्थे चानुष्ठातृभेदमनुष्ठानभेदं वाऽपेक्ष्य बहूक्तिर्न गार्हस्थ्यमपेक्ष्य तस्य प्रागेवासन्दिग्धत्वेनोक्तत्वादित्यर्थः ॥ ४९ ॥