मौनं गार्हस्थ्यमित्याश्रमद्वयोक्तेरितराश्रमाभावाशङ्का कस्यचिद्भवेत्तन्निरासार्थमाह -
मौनवदिति ।
कथं तयोः श्रुतिमत्त्वं, तत्राह -
दर्शितेति ।
श्रुतिमत्त्वाविशेषे फलितमाह -
तस्मादिति ।
इतरेषामिति बहूक्त्या गार्हस्थ्यस्यापि परामर्शो न तु सिद्धवदुपन्यास इत्याशङ्क्याह -
इतरेषामितीति ।
गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारी चतुर्विधः । गृहस्थोऽपि वार्तावृत्तिः शालीनवृत्तिर्यायावरो घोरसंन्यासीति चतुर्विधः । वानप्रस्थश्च वैख्यानसौदुम्बरवालखिल्यफेनपप्रभेदैश्चतुर्विधः । तथा परिव्राडपि कुटीचकबहूदकहंसपरमहंसभेदैश्चतुर्विध इति षोडशप्रभेदास्तावदाश्रमास्तत्तद्धर्मविशेषयुक्ताः श्रुतिस्मृतिप्रसिद्धाः । ततो ब्रह्मचारिणि वानप्रस्थे चानुष्ठातृभेदमनुष्ठानभेदं वाऽपेक्ष्य बहूक्तिर्न गार्हस्थ्यमपेक्ष्य तस्य प्रागेवासन्दिग्धत्वेनोक्तत्वादित्यर्थः ॥ ४९ ॥