ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ (बृ. उ. ३ । ५ । १) इति बाल्यमनुष्ठेयतया श्रूयतेतत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति, बालभावस्य वयोविशेषस्य इच्छया सम्पादयितुमशक्यत्वात् , यथोपपादमूत्रपुरीषत्वादि बालचरितम् , अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयःकिं तावत्प्राप्तम् ? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम्ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम्; विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः, पशुहिंसादिष्विवेत्येवं प्राप्ते अभिधीयते

बाल्यस्य विधेयत्वमुपेत्यावान्तरवाक्यभेदेन मौनमपि विधेयत्वान्मुमुक्षुणा कार्यमित्युक्तम् । इदानीं किंं तद्बाल्यमिति वीक्षायामाह -

अनाविष्कुर्वन्निति ।

अनुष्ठेयत्वेन श्रुतं बाल्यं विषयत्वेनोदाहरति -

तस्मादिति ।

तत्र बाल्ये विषये संशय इति संबन्धः ।

संशयकारणमाह -

बालस्येति ।

तर्हि बालभावो वयोविशेषोऽपि कल्प्यतामित्याशङ्क्य तदग्रहे हेतुमाह -

बालेति ।

तद्धितश्रुत्या परिशिष्टं बाल्यमाश्रित्य संशयमभिनयति -

यथेति ।

बाल्यशब्दार्थविवेचनेन स्वतन्त्रपुमर्थहेतुविद्यान्तरङ्गस्यैवात्रापि निरूपणात्पादादिसङ्गतिः । पूर्वपक्षे तिष्ठन्मूत्रत्वाद्यपि विदुषोऽनुष्ठेयं सिध्यति ।

सिद्धान्ते बाल्यस्याप्ररूढेन्द्रियत्वादिरूपभावशुद्धेरनुष्ठेयत्वान्न विदुषो यथेेष्टचेष्टासिद्धिरिति मत्वा प्रश्नपूर्वकं पूर्वपक्षमाह -

किं तावदिति ।

चरणं चारो वदनं वादो भक्षणं भक्षस्ते कामतो यस्य स तथा तस्य भावस्तत्ता । यथोपपादं यथासम्भवं यत्र क्वापि मूत्रं च पुरीषं चास्येति तथोक्तस्तस्य भावस्तत्त्वम् ।

तत्र लोकप्रसिद्धं हेतुमाह -

प्रसिद्धेति ।

शास्त्रान्तरविरोधादयुक्तमुक्तविधबाल्यस्य विधेयत्वमिति शङ्कते -

नन्विति ।

आदिशब्देन शिष्टगर्हा गृह्यते ।

सामान्यशास्त्रसङ्कोचो विशेषविधेः स्यादित्याह -

नेत्यादिना ।

सामान्यविधेर्विशेषविधिना सङ्कोचे दृष्टान्तमाह -

पश्विति ।

विदुषो यथेष्टचेष्टायामपि न दोषोऽस्तीति प्राप्तमनूद्य सिद्धान्तमाह -

एवमिति ।