विदुषो यथेष्टचेष्टा न विधेया शास्त्रान्तरविरोधादिति प्रतिजानीते -
नेति ।
सामान्यशास्त्रस्योक्तः सङ्कोचो बाल्येन तिष्ठासेदितिवचनादित्याशङ्क्याह -
वचनस्येति ।
सामान्यप्रवृत्तविधिशास्त्रविरुद्धेऽर्थे सम्भवति तद्विरुद्धार्थकल्पनायोगान्न कामचारादि विधेयमित्युक्तमेव व्यनक्ति -
अविरुद्धे हीति ।
इतश्च कामचारादि न विधेयमित्याह -
प्रधानेति ।
किं तत्प्रधानं यदङ्गत्वेन बाल्यादि विधीयते तदाह -
ज्ञानेति ।
उक्तप्रधानोपकारित्वाभावान्न कामचारादि विधेयमित्युक्तम् । तद्विरोधित्वाच्च तदविधेयमित्याह -
नचेति ।
किं तर्हि विधेयं बाल्यं तदाह -
तस्मादिति ।
इहेति प्रकृतवाक्योक्तिः ।
उक्तेऽर्थे सूत्रमादाय योजयति -
तदाहेति ।
कथं यथोक्तेऽर्थे बाल्यशब्दः प्रयुज्यते, तत्राह -
यथेति ।
अन्वयादिति पदं व्याकरोति -
एवं हीति ।
अप्ररूढेन्द्रियत्वादिरूपभावशुद्धिलक्षणबाल्यस्य प्रधानोपकारित्वे मानमाह -
तथाचेति ।
कुलीनत्वप्रकटनं सत्त्वं तद्वैपरीत्यमसत्त्वम् । शास्त्रार्थज्ञानराहित्यमश्रुतत्वं तद्वैपरीत्यं बहुश्रुतत्वम् । सदाचारनिरतत्वं सुवृत्तत्वं दुराचारनिष्ठत्वं दुर्वृत्तत्वमिति भेदः ।
तत्किमिदानीं ब्रह्मधीयोग्यस्य मुमुक्षोर्नास्त्येव किञ्चिदनुष्ठेयं, तत्राह -
गूढेति ।
चक्षुरिन्द्रियपारवश्यं निरसितुमन्धवदित्युक्तम् ।
रसनादिपारवश्यं निरस्यति -
जडवदिति ।
ज्ञानेन्द्रियपारवश्यं परिहृत्य कर्मेन्द्रियपारवश्यं परिहरति -
मूकवदिति ।
धर्मध्वजित्वाप्रकटनमव्यक्तलिङ्गत्वम् । तदेवं मुमुक्षोरुपरतसर्वेन्द्रियस्य श्रवणादिपरस्य मोक्षसाधनं तत्त्वज्ञानमवश्यम्भावीति भावः ॥ ५० ॥