कृतेष्वपि श्रवणादिषु कदाचिद्विद्या नोत्पद्यते चेत्तर्हि तेषां तदुपायत्वमनियतं स्यादित्याशङ्क्याह -
एतदिति ।
कृतेष्वपि श्रवणादिष्वत्र विद्यानुदये कारीर्यादाविव प्रतिबन्धो वा पौष्कल्याभावो वा तेषां कल्पनीयः प्रतिबन्धहीना हि सामग्री कार्यहेतुर्न चैतावता तद्धेतुत्वहतिरित्यर्थः ।
उपस्थितविपाकश्रवणादिविरोधात्कर्मण एव प्रतिबन्धमाशङ्क्याह -
उपस्थितेति ।
तैरेव देशादिभिर्विद्यार्थमेव श्रवणादि कर्म किमिति न विपच्यते, तत्राह -
यानीति ।
भोगार्थस्य कर्मणो ज्ञानार्थस्य च श्रवणादेर्देशकालनिमित्तैकरूप्याभावे हेतुमाह -
यत इति ।
कर्मणा श्रवणादीनां प्रतिबन्धे तेभ्यो, विद्योत्पत्तिवादि शास्त्रं व्याहन्येतेत्याशङ्क्याह -
शास्त्रमिति ।
तथापि कर्मण एव प्रतिबन्धकत्वं न श्रवणादीनामिति कुतो नियमः, तत्राह -
साधनेति ।
यत्त्विह विद्याभावे कारीर्यादिवत्प्रतिबन्धादिसत्त्वकल्पनेन धिय आमुष्मिकत्वकल्पनमयुक्तमिहैव मे विद्या स्यादित्यभिसन्धिदृष्टेरिति, तत्राह -
नचेति ।
दृश्यमानसंसारदुःखस्यानेकजन्मगामित्वं जानतो यदा कदाचिदनर्थनिवृत्तिः स्यादित्यभिसन्धेः साधनसामर्थ्यानुसारेण सम्भावितत्वादित्याह -
अभिसन्धेरिति ।
यत्तु श्रवणादीनां चक्षुरादिवद्दृष्टफलत्वमिति, तत्राह -
श्रवणादीति ।
तेषां विधानाददृष्टद्वारापि साधनत्वमवघातवदवगतं यज्ञादीनामनियतकालफलानां ज्ञानसाधनत्वविधेश्च विद्योत्पत्तेरनियतत्वमित्यर्थः ।
यत्तु यज्ञादीनां घटकत्वाद्धटितेषु श्रवणादिषु विद्याऽवश्यम्भाविनीति तत्र प्रतिबन्धसत्त्वस्य श्रौतलिङ्गसिद्धत्वान्मैवमित्याह -
तथाचेति ।
आत्मनः श्रवणमपि दुष्करं बहूनामित्याह -
श्रवणायेति ।
कथञ्चन श्रवणेऽपि तत्फलं ज्ञानं दुर्लभमित्याह -
शृण्वन्तोऽपीति ।
तत्र हेतुः -
आश्चर्य इति ।
यथावदस्यात्मनो वक्ताश्चर्योऽद्भुतवत्कश्चिदेव सम्भवति । सम्यगाचार्यसिद्धावपि तच्छ्रुत्वा लब्धा साक्षात्कार्ताऽस्याश्चर्यः । तिष्ठतु साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रात्परोक्षतो ज्ञाताप्याश्चर्य एवेत्यर्थः ।
संप्रत्यामुष्मिकत्वे धियो लिङ्गमाह -
गर्भस्य इति ।
कयानुपपत्त्या श्रुतिरिममर्थं दर्शयति, तत्राह -
नहीति ।
जन्मान्तरसञ्चितं साधनं जन्मान्तरेऽपि धियं साधयतीत्यत्र स्मृतिमाह -
स्मृताविति ।
श्रवणादीनां पौष्कल्येऽपि श्रुतिस्मृतिलिङ्गात्पश्वादिफलचित्रादिवदनियतकालत्वसिद्धेर्नानैकान्तिकफलत्वं तेषमित्युपसंहरति -
तस्मादिति ॥ ५१ ॥
विद्यारूपे फले कालोत्कर्षापकर्षकृतो विशेषनियमो दर्शितः ।