ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्रतिबन्ध इतिएतदुक्तं भवतियदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यतेयदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेतिउपस्थितविपाकत्वं कर्मणो देशकालनिमित्तोपनिपाताद्भवतियानि एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्यस्यापीति नियन्तुं शक्यते; यतो विरुद्धफलान्यपि कर्माणि भवन्तिशास्त्रमपि अस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं देशकालनिमित्तविशेषमपि सङ्कीर्तयतिसाधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति, तत्प्रतिबद्धा परस्य तिष्ठति अविशेषेण विद्यायाम् अभिसन्धिर्नोत्पद्यतेइह अमुत्र वा मे विद्या जायतामिति, अभिसन्धेर्निरङ्कुशत्वात्श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यतेतथा श्रुतिः दुर्बोधत्वमात्मनो दर्शयतिश्रवणायापि बहुभिर्यो लभ्यः शृण्वन्तोऽपि बहवो यं विद्युःआश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः’ (क. उ. १ । २ । ७) इतिगर्भस्थ एव वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसञ्चितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति हि गर्भस्थस्यैव ऐहिकं किञ्चित्साधनं सम्भाव्यतेस्मृतावपिअप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति’ (भ. गी. ६ । ३७) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति’ (भ. गी. ६ । ४०) इत्युक्त्वा, पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले सम्भूतिं अभिधाय, अनन्तरम् तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्’ (भ. गी. ६ । ४३) इत्यादिना अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५) इत्यन्तेन एतदेव दर्शयतितस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥ ५१ ॥

कृतेष्वपि श्रवणादिषु कदाचिद्विद्या नोत्पद्यते चेत्तर्हि तेषां तदुपायत्वमनियतं स्यादित्याशङ्क्याह -

एतदिति ।

कृतेष्वपि श्रवणादिष्वत्र विद्यानुदये कारीर्यादाविव प्रतिबन्धो वा पौष्कल्याभावो वा तेषां कल्पनीयः प्रतिबन्धहीना हि सामग्री कार्यहेतुर्न चैतावता तद्धेतुत्वहतिरित्यर्थः ।

उपस्थितविपाकश्रवणादिविरोधात्कर्मण एव प्रतिबन्धमाशङ्क्याह -

उपस्थितेति ।

तैरेव देशादिभिर्विद्यार्थमेव श्रवणादि कर्म किमिति न विपच्यते, तत्राह -

यानीति ।

भोगार्थस्य कर्मणो ज्ञानार्थस्य च श्रवणादेर्देशकालनिमित्तैकरूप्याभावे हेतुमाह -

यत इति ।

कर्मणा श्रवणादीनां प्रतिबन्धे तेभ्यो, विद्योत्पत्तिवादि शास्त्रं व्याहन्येतेत्याशङ्क्याह -

शास्त्रमिति ।

तथापि कर्मण एव प्रतिबन्धकत्वं न श्रवणादीनामिति कुतो नियमः, तत्राह -

साधनेति ।

यत्त्विह विद्याभावे कारीर्यादिवत्प्रतिबन्धादिसत्त्वकल्पनेन धिय आमुष्मिकत्वकल्पनमयुक्तमिहैव मे विद्या स्यादित्यभिसन्धिदृष्टेरिति, तत्राह -

नचेति ।

दृश्यमानसंसारदुःखस्यानेकजन्मगामित्वं जानतो यदा कदाचिदनर्थनिवृत्तिः स्यादित्यभिसन्धेः साधनसामर्थ्यानुसारेण सम्भावितत्वादित्याह -

अभिसन्धेरिति ।

यत्तु श्रवणादीनां चक्षुरादिवद्दृष्टफलत्वमिति, तत्राह -

श्रवणादीति ।

तेषां विधानाददृष्टद्वारापि साधनत्वमवघातवदवगतं यज्ञादीनामनियतकालफलानां ज्ञानसाधनत्वविधेश्च विद्योत्पत्तेरनियतत्वमित्यर्थः ।

यत्तु यज्ञादीनां घटकत्वाद्धटितेषु श्रवणादिषु विद्याऽवश्यम्भाविनीति तत्र प्रतिबन्धसत्त्वस्य श्रौतलिङ्गसिद्धत्वान्मैवमित्याह -

तथाचेति ।

आत्मनः श्रवणमपि दुष्करं बहूनामित्याह -

श्रवणायेति ।

कथञ्चन श्रवणेऽपि तत्फलं ज्ञानं दुर्लभमित्याह -

शृण्वन्तोऽपीति ।

तत्र हेतुः -

आश्चर्य इति ।

यथावदस्यात्मनो वक्ताश्चर्योऽद्भुतवत्कश्चिदेव सम्भवति । सम्यगाचार्यसिद्धावपि तच्छ्रुत्वा लब्धा साक्षात्कार्ताऽस्याश्चर्यः । तिष्ठतु साक्षात्कारः कुशलेनाचार्येणानुशिष्टोऽपि शास्त्रात्परोक्षतो ज्ञाताप्याश्चर्य एवेत्यर्थः ।

संप्रत्यामुष्मिकत्वे धियो लिङ्गमाह -

गर्भस्य इति ।

कयानुपपत्त्या श्रुतिरिममर्थं दर्शयति, तत्राह -

नहीति ।

जन्मान्तरसञ्चितं साधनं जन्मान्तरेऽपि धियं साधयतीत्यत्र स्मृतिमाह -

स्मृताविति ।

श्रवणादीनां पौष्कल्येऽपि श्रुतिस्मृतिलिङ्गात्पश्वादिफलचित्रादिवदनियतकालत्वसिद्धेर्नानैकान्तिकफलत्वं तेषमित्युपसंहरति -

तस्मादिति ॥ ५१ ॥

विद्यारूपे फले कालोत्कर्षापकर्षकृतो विशेषनियमो दर्शितः ।