पूर्वाध्यायान्तिमाधिकरणे मोक्षे प्रतिनियमाभावो दर्शितः । सम्प्रति मोक्षौपयिकविद्यासाधनेषु श्रवणादिष्वावृत्त्यानुष्ठानप्रतिनियमं दर्शयति -
आवृत्तीति ।
पूर्वोत्तराध्याययोः सम्बन्धं हेतुहेतुमद्भावं वक्तुं तार्तीयमर्थमनुद्रवति -
तृतीय इति ।
साधनविचारशेषद्योतनाय प्रायेणेत्युक्तम् । साधनाधीनत्वात्फलिद्धेस्तद्विचारयोरपि युक्तं पौर्वापर्यमित्याशयवानाह -
अथेति ।
कथं तर्हीहार्चिरादिवचनमित्याशङ्क्य फलोक्तिप्रसङ्गेन तदुक्तिरपि भविष्यतीत्याह -
प्रसङ्गेति ।
अध्यायसम्बन्धमुक्त्वा तदधिगमाधिकरणात्प्राक्तनाधिकरणानां तात्पर्यं दर्शयन्नवान्तरसम्बन्धमाह -
प्रथममिति ।
साक्षादेव श्रुत्युक्तं साधनं चिन्तितम् । अधुना फलार्थापत्तिलब्धमावृत्त्यादि चिन्त्यते तदर्थापत्त्यायत्ता च तच्चिन्ता फलाध्याये सङ्गतैवेति भावः ।