प्रथमाधिकरणस्य विषयमनूद्य संशयमाह -
आत्मेति ।
साधनेषूभयथात्वदृष्टेः श्रवणादिसाधनेषु संशयमुक्त्वा मुक्तिहेतुश्रौतात्मधीसा धनश्रवणादिष्वावृत्त्याऽनुष्ठानसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनामदृष्टार्थत्वम् ।
सिद्धान्ते दृष्टार्थतैव तेषां फलतीत्यङ्गीकृत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
यथा प्रयाजादयः सकृदनुष्ठिता दर्शपूर्णमासफलोपकारिणस्तथा श्रवणादिप्रत्ययोऽपि सकृदनुष्ठितः सम्यग्धीहेतुरित्यानर्थक्यमित्यर्थः ।
अवघातादिवत्फलपर्यन्तमावृत्त्यनुष्ठानमाशङ्क्याह -
तावतेति ।
शास्त्रस्य सकृदनुष्ठानेन कृतार्थत्वेऽपि तत्पर्यन्तमनुष्ठानं किं न स्यात् , तत्राह -
अश्रूयमाणायामिति ।
दर्शनक्रियायाः साधनाकाङ्क्षायां सकृदेव साधनोपदेशेन नैराकाङ्क्ष्ये सम्भवत्यसकृदुपदेशानुपपत्त्या तात्पर्यमावृत्तौ कल्प्यते तथाच नाशास्त्रार्थः कृतः स्यादिति शङ्कते -
नन्विति ।
समुच्चितानां श्रवणादीनां साधनत्वधियाप्यसकृदुपदेशोपपत्तेरविरोधान्नावृत्तौ तात्पर्यमित्याह -
एवमिति ।
निर्विशेषब्रह्मसाक्षात्कारफलेषु श्रवणादिष्वावृत्तिमपाकृत्य सविशेषब्रह्मसाक्षात्कारफलेष्वहङ्ग्रहोपासनेष्वावृत्तिमपाकरोति -
सकृदिति ।
श्रवणादीनामहङ्ग्रहोपास्तीनां च प्रयाजादिवदनुष्ठानाददृष्टार्थतेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
आवृत्तौ हेत्वभावमाशङ्क्य हेतुमवतार्य व्याचष्टे -
कुत इत्यादिना ।
पूर्ववादी पूर्वोक्तं स्मारयति -
नन्विति ।
अविद्योच्छेदेनात्मनः स्वरूपावस्थानरूपाया मुक्तेः श्रुत्यनुभवसिद्धत्वादविद्यायाश्च विद्यानान्तरीयकतयोच्छेदस्य रञ्जुतत्त्वसाक्षात्कारादौ दृष्टत्वेन श्रवणादीनां दृष्टफलत्वाद्यावत्फलमवघातादिवदावर्तनीयनि तानीत्याह -
नेत्यादिना ।
उक्तमेव स्फोरयति -
दर्शनेति ।
यत्त्वहङ्ग्रहोपासनेषु सकृदुक्तेष्वावृत्तिशङ्कैव नास्तीति, तत्राह -
अपिचेति ।
यस्य स्यादद्धा न विचिकित्साऽस्ति देवो भूत्वा देवानप्येतीति लिङ्गादहङ्ग्रहोपास्तीनामुपास्यसाक्षात्कारद्वारा दृष्टार्थत्वस्य वकव्यत्वाद्यावत्फलमावृत्तिस्तास्वपि गम्यते शब्दसामर्थ्याच्च तास्वावृत्तिरित्यर्थः ।
अन्तर्णीतावृत्तिगुणमुपासनमित्यत्र लोकसंमतिमाह -
तथाहीति ।
ध्यानमपि तथाविधमित्यत्र तामेव दर्शयति -
तथेति ।
उपासनशब्दश्रुतावावृत्तिसिद्धावपि वेदेत्यादिप्रयोगे कथं तत्सिद्धिरित्याशङ्क्याह -
विदीति ।
विदिनोपक्रम्योपासिनोपसंहारे संवर्गविद्यामुदाहरति -
यथेति ।
स रैक्वो यद्वेद तत्प्राणतत्वं सर्वं धर्मफलमभिसङ्गच्छते । एवं रैक्ववदन्योऽपि यद्रैक्ववेद्यं वेद तस्यापि सर्वसाधुफलावाप्तिर्भवति स तथाभूतो रैक्वो मयोक्तः । एतदिति क्रियाविशेषणम् । रैक्वमिव जानश्रुतिमल्पकं किमात्थेति हंसान्तरं प्रति हंसवचनम् । हे भगवो रैक्व, यां देवतामुपास्से तामेतां मामनुशाधि शिक्षय ज्ञापयेति जानश्रुतेरुक्तिः । अत्रोपक्रमोपसंहारयोरैकरूप्यसिद्धये विद्युपास्त्योरैकार्थ्यं वाच्यम् ।
उपासिनोपक्रम्य विदिनोपसंहारे दृष्टान्तमाह -
यथेति ।
विद्युपास्त्योरैक्यमुपास्तिश्चावृत्तिगुणेति स्थिते फलितमाह -
तस्मादिति ।
श्रवणादिष्वावृत्तेः शब्दसामर्थ्यलभ्यत्वाभावात्कथं तेषु तत्सिद्धिः, तत्राह -
असकृदिति ॥ १ ॥