ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आवृत्तिरसकृदुपदेशात् ॥ १ ॥
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. ४ । ५ । ६) तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इति एवमादिश्रवणेषु संशयःकिं सकृत्प्रत्ययः कर्तव्यः, आहोस्वित् आवृत्त्येतिकिं तावत्प्राप्तम् ? सकृत्प्रत्ययः स्यात् , प्रयाजादिवत् , तावता शास्त्रस्य कृतार्थत्वात्अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत्ननु असकृदुपदेशा उदाहृताः — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यःइत्येवमादयःएवमपि यावच्छब्दमावर्तयेत्सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति, नातिरिक्तम्सकृदुपदेशेषु तुवेद’ ‘उपासीतइत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते, ब्रूमःप्रत्ययावृत्तिः कर्तव्याकुतः ? असकृदुपदेशात् — ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यःइत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयतिननु उक्तम्यावच्छब्दमेव आवर्तयेत् , नाधिकमिति, दर्शनपर्यवसानत्वादेषाम्दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्तियथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि, तद्वत्अपि उपासनं निदिध्यासनं इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयतेतथा हि लोकेगुरुमुपास्ते’ ‘राजानमुपास्तेइति यस्तात्पर्येण गुर्वादीननुवर्तते, एवमुच्यतेतथाध्यायति प्रोषितनाथा पतिम्इतिया निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा, सा एवमभिधीयतेविद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते; क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति, यथायस्तद्वेद यत्स वेद मयैतदुक्तः’ (छा. उ. ४ । १ । ४) इत्यत्र अनु एतां भगवो देवतां शाधि यां देवतामुपास्से’ (छा. उ. ४ । २ । २) इतिक्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति, यथामनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यत्र भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद’ (छा. उ. ३ । १८ । ३) इतितस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिःअसकृदुपदेशस्तु आवृत्तेः सूचकः ॥ १ ॥

प्रथमाधिकरणस्य विषयमनूद्य संशयमाह -

आत्मेति ।

साधनेषूभयथात्वदृष्टेः श्रवणादिसाधनेषु संशयमुक्त्वा मुक्तिहेतुश्रौतात्मधीसा धनश्रवणादिष्वावृत्त्याऽनुष्ठानसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनामदृष्टार्थत्वम् ।

सिद्धान्ते दृष्टार्थतैव तेषां फलतीत्यङ्गीकृत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

यथा प्रयाजादयः सकृदनुष्ठिता दर्शपूर्णमासफलोपकारिणस्तथा श्रवणादिप्रत्ययोऽपि सकृदनुष्ठितः सम्यग्धीहेतुरित्यानर्थक्यमित्यर्थः ।

अवघातादिवत्फलपर्यन्तमावृत्त्यनुष्ठानमाशङ्क्याह -

तावतेति ।

शास्त्रस्य सकृदनुष्ठानेन कृतार्थत्वेऽपि तत्पर्यन्तमनुष्ठानं किं न स्यात् , तत्राह -

अश्रूयमाणायामिति ।

दर्शनक्रियायाः साधनाकाङ्क्षायां सकृदेव साधनोपदेशेन नैराकाङ्क्ष्ये सम्भवत्यसकृदुपदेशानुपपत्त्या तात्पर्यमावृत्तौ कल्प्यते तथाच नाशास्त्रार्थः कृतः स्यादिति शङ्कते -

नन्विति ।

समुच्चितानां श्रवणादीनां साधनत्वधियाप्यसकृदुपदेशोपपत्तेरविरोधान्नावृत्तौ तात्पर्यमित्याह -

एवमिति ।

निर्विशेषब्रह्मसाक्षात्कारफलेषु श्रवणादिष्वावृत्तिमपाकृत्य सविशेषब्रह्मसाक्षात्कारफलेष्वहङ्ग्रहोपासनेष्वावृत्तिमपाकरोति -

सकृदिति ।

श्रवणादीनामहङ्ग्रहोपास्तीनां च प्रयाजादिवदनुष्ठानाददृष्टार्थतेति प्राप्तं पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

आवृत्तौ हेत्वभावमाशङ्क्य हेतुमवतार्य व्याचष्टे -

कुत इत्यादिना ।

पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

अविद्योच्छेदेनात्मनः स्वरूपावस्थानरूपाया मुक्तेः श्रुत्यनुभवसिद्धत्वादविद्यायाश्च विद्यानान्तरीयकतयोच्छेदस्य रञ्जुतत्त्वसाक्षात्कारादौ दृष्टत्वेन श्रवणादीनां दृष्टफलत्वाद्यावत्फलमवघातादिवदावर्तनीयनि तानीत्याह -

नेत्यादिना ।

उक्तमेव स्फोरयति -

दर्शनेति ।

यत्त्वहङ्ग्रहोपासनेषु सकृदुक्तेष्वावृत्तिशङ्कैव नास्तीति, तत्राह -

अपिचेति ।

यस्य स्यादद्धा न विचिकित्साऽस्ति देवो भूत्वा देवानप्येतीति लिङ्गादहङ्ग्रहोपास्तीनामुपास्यसाक्षात्कारद्वारा दृष्टार्थत्वस्य वकव्यत्वाद्यावत्फलमावृत्तिस्तास्वपि गम्यते शब्दसामर्थ्याच्च तास्वावृत्तिरित्यर्थः ।

अन्तर्णीतावृत्तिगुणमुपासनमित्यत्र लोकसंमतिमाह -

तथाहीति ।

ध्यानमपि तथाविधमित्यत्र तामेव दर्शयति -

तथेति ।

उपासनशब्दश्रुतावावृत्तिसिद्धावपि वेदेत्यादिप्रयोगे कथं तत्सिद्धिरित्याशङ्क्याह -

विदीति ।

विदिनोपक्रम्योपासिनोपसंहारे संवर्गविद्यामुदाहरति -

यथेति ।

स रैक्वो यद्वेद तत्प्राणतत्वं सर्वं धर्मफलमभिसङ्गच्छते । एवं रैक्ववदन्योऽपि यद्रैक्ववेद्यं वेद तस्यापि सर्वसाधुफलावाप्तिर्भवति स तथाभूतो रैक्वो मयोक्तः । एतदिति क्रियाविशेषणम् । रैक्वमिव जानश्रुतिमल्पकं किमात्थेति हंसान्तरं प्रति हंसवचनम् । हे भगवो रैक्व, यां देवतामुपास्से तामेतां मामनुशाधि शिक्षय ज्ञापयेति जानश्रुतेरुक्तिः । अत्रोपक्रमोपसंहारयोरैकरूप्यसिद्धये विद्युपास्त्योरैकार्थ्यं वाच्यम् ।

उपासिनोपक्रम्य विदिनोपसंहारे दृष्टान्तमाह -

यथेति ।

विद्युपास्त्योरैक्यमुपास्तिश्चावृत्तिगुणेति स्थिते फलितमाह -

तस्मादिति ।

श्रवणादिष्वावृत्तेः शब्दसामर्थ्यलभ्यत्वाभावात्कथं तेषु तत्सिद्धिः, तत्राह -

असकृदिति ॥ १ ॥