यं कञ्चिदधिकारिणं प्रति श्रवणाद्यावृत्त्यानर्थक्यं चोद्यते सर्वानेव वा प्रतीति विक्ल्पयति -
अत्रेति ।
आद्यमङ्गीकरोति -
भवेदिति ।
ब्रह्मणोऽपरोक्षत्वाद्वाक्यस्य परोक्षबोधित्वे प्रामाण्यायोगादसति चित्तविक्षेपादिप्रतिबन्धे तस्यापरोक्षबोधित्वमेवेत्यर्थः ।
द्वितीयं दूषयति -
यस्त्विति ।
असम्भावनादिप्रतिबन्धे तन्निवृत्त्यर्थमावृत्तिरर्थवतीत्यर्थः ।
तत्र श्रौतं लिङ्गमाह -
तथाहीति ।
सूत्रकृतापि लिङ्गमङ्गीकृतमित्याह -
तथाचेति ।
पूर्ववादी स्वोक्तं स्मारयति -
नन्विति ।
अनुभवानुसारेण परिहरति -
नेत्यादिना ।
कथमावृत्तेरर्थवत्त्वं दृष्टं येन नानुपपत्तिः, तत्राह -
दृश्यन्ते हीति ।
वाक्यार्थज्ञानस्य पदार्थधीपूर्वकत्वात्पदार्थयोश्च दुर्ज्ञानत्वादावृत्त्या क्रमेणैव धीरिति हेत्वन्तरमाह -
अपिचेति ।
तत्र तत्पदवाच्यमर्थमाह -
तदिति ।
तस्यैव लक्ष्यमर्थमाह -
सत्यमिति ।
अजमित्यादिवाक्यस्यार्थमाह -
तत्रेति ।
अस्थूलादिवाक्यस्यार्थमाह -
अस्थूलादीति ।
सत्यज्ञानादिवाक्यस्यापुनरुक्तमर्थमाह -
विज्ञानादीति ।
श्रौते तदर्थे विद्वदनुभवमपि प्रमाणयति -
एष इति ।
तत्पदार्थं वाच्यं लक्ष्यं च सप्रमाणमुक्त्वा त्वम्पदार्थमपि विभज्य दर्शयति -
तथेति ।
अवधारितो योऽयं विज्ञानमयः प्राणेषु यः प्राणेन प्राणितीत्यादिनेति शेषः ।
स्यातामेतौ पदार्थौ तथापि कथमावृत्तेरर्थवत्त्वं, तत्राह -
तत्रेति ।
यत्तु मेयस्यानंशत्वादावृत्त्यानर्थक्यमिति, तत्राह -
यद्यपीति ।
आरोपितव्यावर्त्यांशबाहुल्यात्क्रमवत्त्वं प्रतिपत्तेरर्थवदित्यर्थः ।
तत्त्वमसिवाक्यादहम्ब्रह्मेतिवाक्यार्थज्ञाने सति कथं क्रमापेक्षेत्याशङ्क्याह -
तत्त्विति ।
क्रमेण जातं पूर्वज्ञानमात्मसाक्षात्कारात्पूर्वकालमेव ततोऽसम्भावनादिनिराससहिवाक्योत्थतत्त्वसाक्षात्कारे नास्त्येवावृत्त्यपेक्षेत्यर्थः ।
मन्दमध्यमौ प्रति साक्षात्कारात्पूर्वं श्रवणाद्यावृत्तेरर्थवत्त्वमुक्तम् । इदानीमुत्तमं प्रत्यावृत्त्यानर्थक्यमुक्तं विवृणोति -
येषामिति ।
उत्पन्नाऽपि धीरावृत्तिमपेक्षते फलायेत्याशङ्क्याह -
सकृदिति ।
उत्पन्ने ज्ञाने यदावृत्त्यानर्थक्यं तदङ्गीकुर्वन्नाह -
सत्यमिति ।
वाक्यादीदृशी धीः स्यादित्याशङ्क्याध्यक्षादिविरोधान्मैवमित्याह -
बलवतीति ।
सा वाक्यीयविद्योच्छेयत्वाद्भ्रान्तिरित्याशङ्क्याह -
अत इति ।
दुःखित्वादिप्रत्ययस्य सर्वदा सर्वेषामुत्पद्यमानस्य बलवत्त्वादेव विद्योच्छेद्यत्वायोगान्न भ्रान्तितेत्यर्थः ।
तथाविधस्यापि देहात्माभिमानस्य भ्रान्तित्वाद्दुःखित्वाद्यभिमानस्यापि युक्तिबाधितस्य भ्रान्तित्वसिद्धेर्नैवमित्याह -
नेत्यादिना ।
उक्तं दृष्टान्तं प्रत्यक्षदृष्टान्ताभ्यां स्पष्टयति -
प्रत्यक्षं हीति ।
दुःखादयस्तत्त्वतो नात्मधर्मा वेद्यात्वात्संमतवदिति दार्ष्टान्तिकमाह -
तथेति ।
व्यभिचारित्वाच्च दुःखादीनां रूपादिवत्तत्त्वतो नात्मधर्मतेत्याह -
सुषुप्तेति ।
तर्हि चैतन्यमपि न स्वरूपमननुवृत्तत्वाद्दुःखादिवदित्याशङ्क्याह -
चैतन्यस्येति ।
दुःखित्वादिधीर्मिथ्याभिमानश्चैतन्यमेवाव्यभिचारिस्वरूपमिति स्थिते फलितमाह -
तस्मादिति ।
यथोक्तानुभवे वाक्यादविरुद्धेऽपि किमित्यावृत्तिर्नेष्यते, तत्राह -
नचेति ।
तस्मादेवानुभवात्कृतकृत्यतेत्यत्र मानमाह -
तथाचेति ।
रतिरासक्तिस्तत्फलं तृप्तिस्तृप्तेरपि फलं सन्तोष इति भेदः ।
यत्तु साक्षात्कारात्पूर्वमावृत्तेरर्थवत्त्वमुक्तं तदधिकविवक्षया निगमयति -
यस्येति ।
द्रागिति झटिति ।
नियोगबलादावृत्तौ प्रवृत्तेर्नियोगार्थावृत्तिर्नानुभवार्थेत्याशङ्क्याह -
तत्रापीति ।
अहं ब्रह्मास्मीतिप्रत्ययात्प्रच्याव्य नावृत्तौ पुरुषं प्रवर्तयेत्प्रधानविरोधात् । अकर्त्रात्मानुभवाय हि श्रवणादिविधिर्न नियोगायेत्यर्थः ।
प्रधानविरोधायोगे दृष्टान्तमाह -
नहीति ।
नियोगार्थमावृत्त्युपगमेऽपि तस्मादेवाकर्त्रात्मधीसिद्धेर्न तद्व्याहतिरित्याशङ्क्याह -
नियुक्तस्येति ।
नियोगानङ्गीकारे कुतः श्रोतव्यादिवाक्यैः श्रवणाद्यावृत्तिसिद्धिः, तत्राह -
यस्त्विति ।
अप्रतिभानादसम्भावनादिप्रतिबन्धादिति यावत् । स्थिरीकारोऽसम्भावनाद्यपोहेनावगमदार्ढ्यं वेदोपासीतेत्यावृत्तिर्वाचोयुक्तिः । आदिशब्देन श्रोतव्यादिवाक्यं गृह्यते ।
अहङ्ग्रहोपासनेषु श्रवणादिषु च सगुणनिर्गुणसाक्षात्कारफलेष्वावृत्त्याऽनुष्ठानमित्यधिकरणार्थमुपसंहरति -
तस्मादिति ।
अपरब्रह्मविषयप्रत्यये स्वरूपावृत्तिवदित्यपेरर्थः ॥ २ ॥