श्रवणमनननिदिध्यासनादिसाधनान्यावृत्त्याऽनुष्ठेयानीत्युक्तम् । तत्र निदिध्यासनकाले कथं प्रत्ययावृत्तिः, तत्राह -
आत्मेतित्विति ।
यद्यपि शब्दादेव प्रमित इत्यादिषु जीवब्रह्मैक्यं श्रुतिभिरुक्तं तथापि तासामेव विरुद्धार्थत्वादुपचरितविषयत्वमाशङ्क्यात्र समाधीयते । विरोधसमाधेरविरोधाध्यायसङ्गतत्वेऽपि महावाक्यार्थविरोधसमाधेः समाधावन्तरङ्गत्वादिह सङ्गतिरिति मत्वा विषयोक्तिपूर्वकमुभयथाप्रसिद्धेः संशयमाह -
य इति ।
संशयाभावादधिकरणमाक्षिपति -
कथमिति ।
आत्मशब्दस्य मुख्यार्थत्वे सत्यभेदसिद्धिस्तत्सिद्धौ च तस्य मुख्यार्थत्वसिद्धिरित्यन्योन्याश्रयान्मानान्तरविरोधाच्च तन्मुख्यार्थत्वासिद्धेस्तदालम्बनेन संशयानाक्षेपादधिकरणमारभ्यमित्याह -
उच्यत इति ।
अत्र च विरोधपरिहारफले समाध्युपयोगितया प्रासङ्गिके । ध्यानावस्थायां प्रत्यक्त्वेन ब्रह्मप्रतिपत्त्यनुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे श्रुतीनामैक्यगोचराणामुपचरितार्थत्वम् ।
सिद्धान्ते तासां मुख्यार्थत्वं फलतीत्याशयवान्विमृश्य पूर्वपक्षं गृह्णाति -
किमिति ।
द्वा सुपर्णेत्यादिभेदश्रुतेरुपास्योपासकादिभावभेदलिङ्गश्च भेद इत्यर्थः ।
युक्तितो भेदमाह -
नहीति ।
तयोर्विरुद्धगुणत्वमसिद्धमित्याशङ्क्याह -
अपहतेति ।
किं चाभेदेऽपि किमीश्वरस्य जीवात्मता किं वा जीवस्येश्वरात्मतेति विकल्प्याद्यं दूषयति -
ईश्वरस्येति ।
द्वितीयं प्रत्याह -
संसारिणोऽपीति ।
अहं सुखीत्याद्यनुभवेन विरुद्धस्वभावत्वाद्भेदो दहनतुहिनवदित्यनुमानेन च विरोधान्न तयोरैक्यमित्याह -
प्रत्यक्षादीति ।
एकत्वोपदेशानां तर्हि का गतिरित्याशङ्क्य व्याजेन तद्गतिमाह -
अन्यत्वेऽपीत्यादिना ।
तादात्म्यदर्शनाङ्गीकारे नास्ति विप्रतिपत्तिरित्याशङ्क्याह -
न त्विति ।