ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
एवं प्राप्ते, ब्रूमःआत्मेत्येव परमेश्वरः प्रतिपत्तव्यःतथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि भगवो देवतेइति; तथा अन्येऽपिअहं ब्रह्मास्मिइत्येवमादय आत्मत्वोपगमा द्रष्टव्याःग्राहयन्ति आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानिएष आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) एष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । ३) तत्सत्यꣳ आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्येवमादीनियदुक्तम्प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति, तदयुक्तम्गौणत्वप्रसङ्गात् , वाक्यवैरूप्याच्चयत्र हि प्रतीकदृष्टिरभिप्रेयते, सकृदेव तत्र वचनं भवतियथा मनो ब्रह्म’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्म’ (छा. उ. ३ । १९ । १) इत्यादिइह पुनःत्वम् अहमस्मि, अहं त्वमसीत्याहअतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिःभेददृष्ट्यपवादाच्च; तथा हिअथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति वेद’ (बृ. उ. १ । ४ । १०) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद’ (बृ. उ. २ । ४ । ६) इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदतियत्तूक्तम् विरुद्धगुणयोरन्योन्यात्मत्वसम्भव इति, नायं दोषः, विरुद्धगुणताया मिथ्यात्वोपपत्तेःयत्पुनरुक्तम्ईश्वराभावप्रसङ्ग इति, तदसत् , शास्त्रप्रामाण्यात् अनभ्युपगमाच्च हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामःकिं तर्हि ? संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमितिएवं सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठतेयदप्युक्तम्अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति, तदप्यसत् , प्राक्प्रबोधात् संसारित्वाभ्युपगमात् , तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्ययत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयतिप्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् , , इष्टत्वात्अत्र पिताऽपिता भवति’ (बृ. उ. ४ । ३ । २२) इत्युपक्रम्य, वेदा अवेदाः’ (बृ. उ. ४ । ३ । २२) इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधेकस्य पुनरयम् अप्रबोध इति चेत् , यस्त्वं पृच्छसि तस्य ते, इति वदामःननु अहमीश्वर एवोक्तः श्रुत्यायद्येवं प्रतिबुद्धोऽसि, नास्ति कस्यचिदप्रबोधःयोऽपि दोषश्चोद्यते कैश्चित्अविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति, सोऽपि एतेन प्रत्युक्तःतस्मात् आत्मेत्येव ईश्वरे मनो दधीत ॥ ३ ॥

एकत्वश्रुतीनां प्राप्तमुपचरितार्थत्वमनूद्य सिद्धान्तयति -

एवमिति ।

सिद्धान्तसूत्रं योजयति -

आत्मेत्येवेति ।

तत्र मानमाह -

तथाहीति ।

आत्मत्वोपगमान्तराणि दर्शयति -

तथेति ।

आदिशब्देन तद्योऽहं सोऽसौ योऽसौ सोऽहमित्यादयो गृह्यन्ते ।

सूत्रावयवमवशिष्टं व्याचष्टे -

ग्राहयन्तीति ।

परोक्तमनूद्य दूषयति -

यदुक्तमित्यादिना ।

एकत्वश्रुतीनामपूर्वार्थत्वफलवत्त्वाभ्यां तात्पर्यसिद्धेर्मुख्यवृत्तिसम्भवे गौणत्वायोगाद्द्वैतश्रुतीनां तल्लिङ्गानां च तद्वैपरीत्यात्कल्पितभेदालम्बनत्वान्मुख्यमेव जीवब्रह्मणोरैक्यमित्यर्थः ।

इतश्च नेदं प्रतीकदर्शनमित्याह -

वाक्येति ।

भेदस्य निन्द्यमानत्वाच्चाभेदस्यैव प्रतिपाद्यतेत्याह -

भेदेति ।

विरुद्धस्वभावत्वाद्भेदो जीवब्रह्मणोरित्युक्तमनूद्य प्रत्याह -

यत्त्विति ।

बिम्बप्रतिबिम्बवदुपाधिकृतो विरुद्धधर्माध्यासो न वास्तवस्तथा च तात्त्विकमैक्यमित्यर्थः ।

अभेदेऽपि संसार्यात्मत्वमीश्वरस्य संसारिणो वा तदात्मत्वमिति विकल्प्याद्ये यद्दूषणं तदनुभाष्य दूषयति -

यत्पुनरिति ।

अनभ्युपगमं विवृणोति -

नहीति ।

द्वितीयं प्रश्नपूर्वकमङ्गीकरोति -

किमिति ।

विरुद्धांशहान्या जीवस्य ब्रह्मत्वे प्रतिपाद्ये विरुद्धधर्मत्वमुक्तमसिद्धमेवेति फलितमाह -

एवं चेति ।

संसारिणः संसारित्वापोहेन ब्रह्मत्वे साध्ये परोक्तमनूद्य निरस्यति -

यदपीति ।

अधिकार्यभावादिरेकत्वज्ञानात्पूर्वमूर्ध्वं वेति विकल्प्याद्यं निराह -

प्रागिति ।

द्वितीयमङ्गीकरोति -

यत्रेति ।

श्रुतिश्रद्धालुतया शङ्कते -

प्रत्यक्षादीति ।

तत्त्वज्ञानादूर्ध्वं श्रुत्यभावस्येष्टत्वान्नानिष्टापत्तिरित्याह -

नेष्टत्वादिति ।

तदेव स्पष्टयति -

अत्रेति ।

गूढाभिप्रायः सन्पृच्छति -

कस्येति ।

यस्य भ्रान्तिस्तस्याज्ञानमित्याह -

यस्त्वामिति ।

स्वाभिप्रायं पूर्ववादी प्रकटयति -

नन्विति ।

अविद्यातज्जभ्रान्त्योरनिर्वाच्यत्वाद्बोधे सति तयोरसत्त्वान्नाश्रयापेक्षेत्याह -

यद्येवमिति ।

अनिर्वाच्यत्वादविद्यायाश्चोद्यान्तरमपि निरस्तमित्याह -

योऽपीति ।

अभेदश्रुतीनां सिद्धे मुख्यार्थत्वे फलितमुपसंहरति -

तस्मादिति ॥ ३ ॥