अहङ्ग्रहोपासनेष्विव प्रतीकोपासनेष्वहङ्ग्रहेणानुष्ठानं नेत्युक्तम् । इदानीं प्रतीकोपासनेष्वेव क्व किन्दृष्टिरध्यस्यतामिति सन्दिहानं प्रत्याह -
ब्रह्मदृष्टिरिति ।
एकविषयत्वेनाधिकरणयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -
तेष्वेवेति ।
प्रश्नपूर्वकं संशयबीजमाह -
कुत इति ।
उक्तमेव व्यक्तीकर्तुं सामानाधिकरण्यधियं तावद्दर्शयति -
अत्रेति ।
तथापि यथाकथञ्चिदस्य सामानाधिकरण्यस्य सम्भवे कुतः संशयसिद्धिरित्याशङ्क्य सोऽयमितिवदेकत्वनिमित्तं वा प्रकृतिविकारत्वनिमित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -
नचेति ।
भिन्नार्थशब्देषु तदभावमुदाहरति -
नहीति ।
द्वितीयमादत्ते -
नन्विति ।
उपास्तिविरोधान्मैवमित्याह -
नेतीति ।
प्रविलयपरमेव वाक्यं नोपास्तिपरमित्याशङ्क्योपासीतेतिश्रुतिविरोधान्मैवमित्याह -
परमात्मेति ।
प्रपञ्चप्रविलयद्वारा परमात्मपरत्वे वाक्यस्य कतिपयादित्यादिग्रहणमनर्थकम् । नच सर्वोपलक्षणार्थं तद्ग्रहणं मुख्यसम्भवे लक्षणायोगादित्याह -
परिमितेति ।
पक्षद्वयायोगात्परिशिष्टे तृतीये पूर्वोक्तः संशयः स्यादित्युपसंहरति -
तस्मादिति ।
प्रासङ्गिकप्रकृतप्रतीकोपासनेषु स्वतन्त्रपुमर्थहेतुषु ब्रह्मदृष्ट्यानुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकिकन्यायविरोधः ।
सिद्धान्ते तदविरोधः सिध्यतीत्यमिप्रेत्य पूर्वपक्षयति -
तत्रेति ।
यथात्यन्तिकभेदो नामादिष्वहङ्ग्रहाभावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।
उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषवत्त्वाद्राजादिवदित्याशङ्क्य साक्षात्पूर्वपक्षमाह -
अथवेति ।
आदित्यादिशब्दानां प्रथमश्रुतानामनुरोधेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फलाभावापातादित्याह -
ब्रह्मेति ।
पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।
आदित्यादिदृष्ट्या ब्रह्मोपास्यमिति प्राप्ते सिद्धान्तयति -
एवमिति ।