ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
तेष्वेव उदाहरणेष्वन्यः संशयः — किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः, किं वा ब्रह्मदृष्टिरादित्यादिष्विति । कुतः संशयः ? सामानाधिकरण्ये कारणानवधारणात् । अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते, ‘आदित्यो ब्रह्म’ ‘प्राणो ब्रह्म’ ‘विद्युद्ब्रह्म’ इत्यादिसमानविभक्तिनिर्देशात् । न च अत्र आञ्जसं सामानाधिकरण्यमवकल्पते, अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् । न हि भवति — गौरश्व इति सामानाधिकरण्यम् । ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात् — नेत्युच्यते; विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् , ततश्च प्रतीकाभावप्रसङ्गमवोचाम । परमात्मवाक्यं चेदं तदानीं स्यात् , ततश्चोपासनाधिकारो बाध्येत, परिमितविकारोपादानं च व्यर्थम् । तस्मात् ‘ब्राह्मणोऽग्निर्वैश्वानरः’ इत्यादिवत् अन्यत्रान्यदृष्ट्यध्यासे सति, क्व किंदृष्टिरध्यस्यतामिति संशयः । तत्र अनियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम् । अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् । एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति । ब्रह्मोपासनं च फलवदिति शास्त्रमर्यादा । तस्मात् न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः —

अहङ्ग्रहोपासनेष्विव प्रतीकोपासनेष्वहङ्ग्रहेणानुष्ठानं नेत्युक्तम् । इदानीं प्रतीकोपासनेष्वेव क्व किन्दृष्टिरध्यस्यतामिति सन्दिहानं प्रत्याह -

ब्रह्मदृष्टिरिति ।

एकविषयत्वेनाधिकरणयोः सङ्गति मन्वानो विषयसंशयौ दर्शयति -

तेष्वेवेति ।

प्रश्नपूर्वकं संशयबीजमाह -

कुत इति ।

उक्तमेव व्यक्तीकर्तुं सामानाधिकरण्यधियं तावद्दर्शयति -

अत्रेति ।

तथापि यथाकथञ्चिदस्य सामानाधिकरण्यस्य सम्भवे कुतः संशयसिद्धिरित्याशङ्क्य सोऽयमितिवदेकत्वनिमित्तं वा प्रकृतिविकारत्वनिमित्तं वा समारोपकृतं वा तदिति विकल्प्याद्यं दूषयति -

नचेति ।

भिन्नार्थशब्देषु तदभावमुदाहरति -

नहीति ।

द्वितीयमादत्ते -

नन्विति ।

उपास्तिविरोधान्मैवमित्याह -

नेतीति ।

प्रविलयपरमेव वाक्यं नोपास्तिपरमित्याशङ्क्योपासीतेतिश्रुतिविरोधान्मैवमित्याह -

परमात्मेति ।

प्रपञ्चप्रविलयद्वारा परमात्मपरत्वे वाक्यस्य कतिपयादित्यादिग्रहणमनर्थकम् । नच सर्वोपलक्षणार्थं तद्ग्रहणं मुख्यसम्भवे लक्षणायोगादित्याह -

परिमितेति ।

पक्षद्वयायोगात्परिशिष्टे तृतीये पूर्वोक्तः संशयः स्यादित्युपसंहरति -

तस्मादिति ।

प्रासङ्गिकप्रकृतप्रतीकोपासनेषु स्वतन्त्रपुमर्थहेतुषु ब्रह्मदृष्ट्यानुष्ठानोक्त्या पादादिसङ्गतिः । पूर्वपक्षे लौकिकन्यायविरोधः ।

सिद्धान्ते तदविरोधः सिध्यतीत्यमिप्रेत्य पूर्वपक्षयति -

तत्रेति ।

यथात्यन्तिकभेदो नामादिष्वहङ्ग्रहाभावे हेतुरुक्तस्तथा तेष्वेव ब्रह्मधीनियामकं न किञ्चिद्दृष्टं तस्मादनियम इत्यर्थः ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषवत्त्वाद्राजादिवदित्याशङ्क्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

आदित्यादिशब्दानां प्रथमश्रुतानामनुरोधेन चरमश्रुतं ब्रह्मपदं नेतव्यमिति चेन्न । तथा सति फलाभावापातादित्याह -

ब्रह्मेति ।

पक्षद्वयेऽपि फलितमाह -

तस्मादिति ।

आदित्यादिदृष्ट्या ब्रह्मोपास्यमिति प्राप्ते सिद्धान्तयति -

एवमिति ।