ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति । कस्मात् ? उत्कर्षात् । एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृष्टदृष्टेस्तेष्वध्यासात् । तथा च लौकिको न्यायोऽनुगतो भवति । उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः — यथा राजदृष्टिः क्षत्तरि । स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् । न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः, न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति ; अत्रोच्यते — निर्धारिते शास्त्रार्थे एतदेवं स्यात् । सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते । तेन च उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे, निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते । प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् । तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ, पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासम्भवात् , ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते । इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः । तथा हि — ‘ब्रह्मेत्यादेशः’ ‘ब्रह्मेत्युपासीत’ ‘ब्रह्मेत्युपास्ते’ इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति, शुद्धांस्तु आदित्यादिशब्दान् । ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः — प्रत्येत्येव हि केवलं रजतमिति, न तु तत्र रजतमस्ति — एवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते । वाक्यशेषोऽपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति — ‘स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ (छा. उ. ३ । १९ । ४) ‘यो वाचं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । २ । २) ‘यः सङ्कल्पं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । ४ । ३) इति च । यत्तूक्तम् — ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति, तदयुक्तम् , उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् । फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति, सर्वाध्यक्षत्वात् । वर्णितं चैतत् ‘फलमत उपपत्तेः’ (ब्र. सू. ३ । २ । ३८) इत्यत्र । ईदृशं च अत्र ब्रह्मण उपास्यत्वम् , यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम् — प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥

नियमहेतुं प्रश्नपूर्वकमाह -

कस्मादिति ।

हेत्वर्थं विवृणोति -

एवमिति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टस्य द्रष्टव्यत्वादादित्यादिदृष्ट्या ब्रह्मैवोपास्यमित्युक्तमाशङ्क्याह -

तथाचेति ।

किं तदनुसरणेनेत्याशङ्क्याह -

स चेति ।

प्रसङ्गमेव दृष्टान्तेन स्पष्टयति -

नहीति ।

ब्रह्मण एव फलमत इतिन्यायात्फलदातृत्वात्तस्यैवादित्यादिधीभिरुपास्येतेति शङ्कते -

नन्विति ।

किञ्च शास्त्रस्य स्वत एव प्रामाण्यान्न लौकिकन्यायापेक्षेत्याह -

नचेति ।

ब्रह्मण एव फलदातृत्वेऽपि शास्त्रमादित्यादौ प्रतीके ब्रह्मधिया ध्येये तत्फलदमिति वा ब्रवीत्यादित्यादिधिया ब्रह्मण्युपास्ये वेति शास्त्रार्थसन्देहे लोकानुसारेण निर्धारणमित्याह -

अत्रेति ।

लौकिकन्यायस्य निश्चयहेतुत्वे विपक्षे दोषमाह -

तेनेति ।

न केवलं लौकिकन्यायो निश्चायकः किं त्वादित्यादिशब्दानां प्रथमश्रुतत्वेन मुख्यार्थत्वमपीत्याह -

प्राथम्यादिति ।

ब्रह्मशब्दस्य धीपरत्वे युक्त्यन्तरमाह -

इतिपरत्वादिति ।

तस्येतिपरत्वमेव स्फोरयति -

तथाहीति ।

आदित्यादिशब्देषु वैलक्षण्यमाह -

शुद्धानिति ।

अस्तु ब्रह्मशब्दस्येतिपरत्वमादित्यादिशब्दानां च शुद्धत्वं तथापि कथं दृष्टिपरत्वार्थपरत्वव्यवस्थेत्याशङ्क्याह -

ततश्चेति ।

रजतशब्दस्यापि शुक्तिशब्दवदर्थपरत्वं चेदितिशब्दयोगो व्यर्थः स्यादित्यर्थः ।

प्रतीतिश्चेत्तस्या निरालम्बनत्वायोगादस्त्येव रजतमपीत्याशङ्क्याह -

प्रत्येत्येवेति ।

प्रतीतेराभासत्वान्न योग्यमालम्बनमस्तीत्यर्थः ।

लोकसिद्धमर्थं प्रकृते योजयति -

एवमिति ।

किं चादित्यादीनां द्वितीयाश्रुत्योपास्तिकर्मत्वेन प्राधान्यसिद्धेर्ब्रह्मशब्दस्य धीपरत्वमेवेत्याह -

वाक्येति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषपरत्वाद्राजादिवदित्युक्तमनुवदति -

यत्त्विति ।

आदित्यादीनामेवोपास्यत्वार्पकद्वितीयाश्रुतिविरुद्धमनुमानमित्याह -

तदिति ।

कथं तर्हि फलसिद्धिरित्याशङ्क्य हेतोरन्यथासिद्धिमाह -

फलं त्विति ।

धर्मस्यैव फलदत्वात्कुतो ब्रह्मणस्तथात्वं, तत्राह -

वर्णितं चेति ।

द्वितीयेतिशब्दश्रुतिभ्यामुत्कृष्टदृष्ट्या निकृष्टमुपास्यमितिन्यायानुगृहीताभ्यामुक्तानुमानभङ्गादसञ्जातविरोधित्वेन प्रथमश्रुता आदित्यादय एव चरमश्रुततया सञ्जातविरोधात्प्रत्ययमात्रपरब्रह्मशब्देनार्पितब्रह्मदृष्टिविशिष्टा विशेषणतयोपास्यब्रह्मसामर्थ्यलब्धफलविशेषा ध्येया भवन्तीति भावः ।

कथं तर्हीदं ब्रह्मोपासनमिति प्रसिद्धिः, तत्राह -

ईदृशं चेति ॥ ५ ॥