ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
‘य एवासौ तपति तमुद्गीथमुपासीत’ (छा. उ. १ । ३ । १) ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) ‘वाचि सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ८ । १) ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयः — किमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इति । तत्र अनियमः, नियमकारणाभावात् — इति प्राप्तम् । न हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यते । ब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् । न तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किञ्चिदुत्कर्षविशेषावधारणे कारणमस्ति । अथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् ? कर्मात्मकत्वादुद्गीथादीनाम् , कर्मणश्च फलप्राप्तिप्रसिद्धेः । उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ‘इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्यत्र ‘तदेतदेतस्यामृच्यध्यूढं साम’ (छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम् । तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, न ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम् । क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, न राजनि क्षत्तृशब्दः । अपि च ‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयते । ‘एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इति च एतदेव दर्शयति । प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम् — ‘आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषु । प्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयः — ‘पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिश्रुतिषु । अतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप इत्येवं प्राप्ते ब्रूमः —

पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमेन वा गीतित्वेन क्रियारूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिकरणे प्रथमनिर्दिष्टानामादित्यादिषु ब्रह्मदृष्टिवत्प्राथमिकादित्यादिषूद्गीथादिदृष्टिकरणे वा प्राप्ते प्रत्याह -

आदित्यादीति ।

अङ्गाश्रितोपासनान्युदाहृत्य विशेषानुपलब्ध्या संशयमाह -

य एवेत्यादिना ।

पृथिव्याग्न्यन्तरिक्षादित्यद्युसंज्ञकेषु लोकेषु हिंकारप्रस्तावोद्गीथप्रतिहारनिधनरूपं पञ्चप्रकारं सामोपास्यं लोकदृष्ट्या तदुपास्यमित्यर्थः । वाचि सप्तविधमिति हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनरूपं सप्तप्रकारं साम वाच्युपास्यं वाग्दृष्ट्या सामोपास्यमित्यर्थः । प्रासङ्गिकाङ्गावबद्धोपासनेषु स्वतन्त्रफलेष्वनङ्गदृष्ट्यानुष्ठाननिरूपणात्पादादिसङ्गतिः ।

पू्र्वपक्षे दृष्टिकरणस्य फलवत्त्वम् । सिद्धान्तेऽपि तदविरुद्धं सिध्यतीति । स्वीकृत्य पूर्वपक्षमाह -

तत्रेति ।

नियमकारिणः शास्त्रस्याभावादित्युक्तं व्यनक्ति -

नहीति ।

वैधर्म्यदृष्टान्तं स्पष्टयति -

ब्रह्मेति ।

अङ्गानङ्गयोरपि कस्यचिद्विशेषो गम्यतामित्याशङ्क्याह -

न त्विति ।

कर्मरूपाणामुद्गीथादीनामुत्कर्षभानमुपेत्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

नियमहेतुं पृच्छति -

कस्मादिति ।

उद्गीथादिकर्माङ्गानां क्रियासमवायात्फलसाधनतयोत्कृष्टत्वादिति हेतुमाह -

कर्मेति ।

किञ्च सिद्धरूपादित्याद्यात्मना चेदुद्गीथादयो दृष्टास्तदा न फलहेतवः । यदा तूद्गीथादिदृष्ट्यादित्यादयो दृष्टास्तदा तेषामपि फलहेतुत्वं स्यादित्याह -

उद्गीथादीति ।

अनङ्गेष्वेवाङ्गमतिकर्तव्यत्वं पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगादपि भातीत्याह -

तथाचेति ।

तदेतदग्न्याख्यं सामैतस्यां पृथ्वीलक्षणायामृच्यध्यूढमुपरिश्रितमिति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -

क्षत्तरीति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरिष्टा चेत्तदा प्रयोगवैपरीत्यं स्यात्तस्मात्पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या तत्र कर्मङ्गभूतर्क्सामाध्याससिद्धिरित्यर्थः ।

ततश्चानङ्गेष्वङ्गमतिः कर्तव्येत्याह -

अपिचेति ।

सप्तम्या लोकानां सामधीविषयत्वनिर्देशादित्याह -

अधिकरणेति ।

अन्यत्रापि सप्तमीश्रुतेरनङ्गेष्वद्गधीर्भातीत्याह -

एतदिति ।

पूर्वाधिकरणसिद्धान्तन्योयेनाप्यनङ्गेष्वङ्गदृष्टिः शिष्टेत्याह -

प्रथमेति ।

आदित्यादावुद्गीथादीधीकरणात्तस्य फलवत्त्वसिद्धिरिति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।