ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
ब्रह्मदृष्टिरेव आदित्यादिषु स्यादितिकस्मात् ? उत्कर्षात्एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति, उत्कृष्टदृष्टेस्तेष्वध्यासात्तथा लौकिको न्यायोऽनुगतो भवतिउत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायःयथा राजदृष्टिः क्षत्तरि अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात्ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः, लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति ; अत्रोच्यतेनिर्धारिते शास्त्रार्थे एतदेवं स्यात्सन्दिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो विरुध्यतेतेन उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे, निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यतेप्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम्तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ, पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासम्भवात् , ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठतेइतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यःतथा हि — ‘ब्रह्मेत्यादेशः’ ‘ब्रह्मेत्युपासीत’ ‘ब्रह्मेत्युपास्तेइति सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति, शुद्धांस्तु आदित्यादिशब्दान्ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र, शुक्तिवचन एव शुक्तिकाशब्दः, रजतशब्दस्तु रजतप्रतीतिलक्षणार्थःप्रत्येत्येव हि केवलं रजतमिति, तु तत्र रजतमस्तिएवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यतेवाक्यशेषोऽपि द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते’ (छा. उ. ३ । १९ । ४) यो वाचं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । २ । २) यः सङ्कल्पं ब्रह्मेत्युपास्ते’ (छा. उ. ७ । ४ । ३) इति यत्तूक्तम्ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति, तदयुक्तम् , उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात्फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति, सर्वाध्यक्षत्वात्वर्णितं चैतत् फलमत उपपत्तेः’ (ब्र. सू. ३ । २ । ३८) इत्यत्रईदृशं अत्र ब्रह्मण उपास्यत्वम् , यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम्प्रतिमादिष्विव विष्ण्वादीनाम् ॥ ५ ॥

नियमहेतुं प्रश्नपूर्वकमाह -

कस्मादिति ।

हेत्वर्थं विवृणोति -

एवमिति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टस्य द्रष्टव्यत्वादादित्यादिदृष्ट्या ब्रह्मैवोपास्यमित्युक्तमाशङ्क्याह -

तथाचेति ।

किं तदनुसरणेनेत्याशङ्क्याह -

स चेति ।

प्रसङ्गमेव दृष्टान्तेन स्पष्टयति -

नहीति ।

ब्रह्मण एव फलमत इतिन्यायात्फलदातृत्वात्तस्यैवादित्यादिधीभिरुपास्येतेति शङ्कते -

नन्विति ।

किञ्च शास्त्रस्य स्वत एव प्रामाण्यान्न लौकिकन्यायापेक्षेत्याह -

नचेति ।

ब्रह्मण एव फलदातृत्वेऽपि शास्त्रमादित्यादौ प्रतीके ब्रह्मधिया ध्येये तत्फलदमिति वा ब्रवीत्यादित्यादिधिया ब्रह्मण्युपास्ये वेति शास्त्रार्थसन्देहे लोकानुसारेण निर्धारणमित्याह -

अत्रेति ।

लौकिकन्यायस्य निश्चयहेतुत्वे विपक्षे दोषमाह -

तेनेति ।

न केवलं लौकिकन्यायो निश्चायकः किं त्वादित्यादिशब्दानां प्रथमश्रुतत्वेन मुख्यार्थत्वमपीत्याह -

प्राथम्यादिति ।

ब्रह्मशब्दस्य धीपरत्वे युक्त्यन्तरमाह -

इतिपरत्वादिति ।

तस्येतिपरत्वमेव स्फोरयति -

तथाहीति ।

आदित्यादिशब्देषु वैलक्षण्यमाह -

शुद्धानिति ।

अस्तु ब्रह्मशब्दस्येतिपरत्वमादित्यादिशब्दानां च शुद्धत्वं तथापि कथं दृष्टिपरत्वार्थपरत्वव्यवस्थेत्याशङ्क्याह -

ततश्चेति ।

रजतशब्दस्यापि शुक्तिशब्दवदर्थपरत्वं चेदितिशब्दयोगो व्यर्थः स्यादित्यर्थः ।

प्रतीतिश्चेत्तस्या निरालम्बनत्वायोगादस्त्येव रजतमपीत्याशङ्क्याह -

प्रत्येत्येवेति ।

प्रतीतेराभासत्वान्न योग्यमालम्बनमस्तीत्यर्थः ।

लोकसिद्धमर्थं प्रकृते योजयति -

एवमिति ।

किं चादित्यादीनां द्वितीयाश्रुत्योपास्तिकर्मत्वेन प्राधान्यसिद्धेर्ब्रह्मशब्दस्य धीपरत्वमेवेत्याह -

वाक्येति ।

उत्कृष्टनिकृष्टयोरुत्कृष्टमेवोपास्यं फलविशेषपरत्वाद्राजादिवदित्युक्तमनुवदति -

यत्त्विति ।

आदित्यादीनामेवोपास्यत्वार्पकद्वितीयाश्रुतिविरुद्धमनुमानमित्याह -

तदिति ।

कथं तर्हि फलसिद्धिरित्याशङ्क्य हेतोरन्यथासिद्धिमाह -

फलं त्विति ।

धर्मस्यैव फलदत्वात्कुतो ब्रह्मणस्तथात्वं, तत्राह -

वर्णितं चेति ।

द्वितीयेतिशब्दश्रुतिभ्यामुत्कृष्टदृष्ट्या निकृष्टमुपास्यमितिन्यायानुगृहीताभ्यामुक्तानुमानभङ्गादसञ्जातविरोधित्वेन प्रथमश्रुता आदित्यादय एव चरमश्रुततया सञ्जातविरोधात्प्रत्ययमात्रपरब्रह्मशब्देनार्पितब्रह्मदृष्टिविशिष्टा विशेषणतयोपास्यब्रह्मसामर्थ्यलब्धफलविशेषा ध्येया भवन्तीति भावः ।

कथं तर्हीदं ब्रह्मोपासनमिति प्रसिद्धिः, तत्राह -

ईदृशं चेति ॥ ५ ॥