अनङ्गेष्वङ्गमतिरुक्ता तथा चान्यथा नियमो निर्बीजत्वादयुक्त इति शङ्कते -
कुत इति ।
नियमहेतुमवतार्य व्याकरोति -
उपपत्तेरिति ।
यथा प्रोक्षणादिना व्रीह्यादिषु संस्कृतेषु कर्मापूर्वमुत्पद्यते तथा प्रकृतकर्मापूर्वसंनिधानादुद्गीथादीनामादित्यादिमतिभिस्तेषु संस्क्रियमाणेषु कर्मसमृद्धिरुपपद्यते, तथाच कर्मसमृद्धिफलोपपत्तेरङ्गेष्वनङ्गमतिक्षेप इत्यर्थः ।
कर्मसमृद्धिरुपास्तिफलमित्येतदेवासिद्धमित्याशङ्क्याह -
यदेवेति ।
यत्र कर्मसमृद्धिः फलं श्रूयते तत्राङ्गेष्वनङ्गमतिक्षेपोऽस्त्वादित्यादिमतिसंस्कृतानामङ्गानां कर्मातिशयहेतुत्वात्स्वतन्त्रफलेषु पुनरुपासनेषु कथं मतिक्षेपः स्यादिति विवेको नास्तीति शङ्कते -
भवत्विति ।
स्वतन्त्रफलेष्वपि तेषु प्रकृतकर्माङ्गव्यपाश्रयेणाङ्गेष्वेव मतिकरणात्फलकल्पना युक्ता कर्माधिकृतस्यैव तदङ्गसम्बन्धेषूपासनेष्वधिकारात् । यथाधिकृताधिकारेषु गोदोहनादिषु स्वतन्त्रफलेष्वपि प्रकृतकर्माङ्गावष्टम्भेनैव फलमिष्टं तथेहापीति परिहरति -
तेष्वपीति ।
यत्त्वादित्यादीनामुद्गीथादीनां चोत्कर्षविशेषानवधारणमिति, तत्राह -
फलेति ।
तदेव स्फुटयति -
आदित्यादीति ।
उपक्रमानुसारादप्यादित्यादिधीरुद्गीथादिषु कार्येत्याह -
अपिचेति ।
द्वितीयां पूर्वपक्षोपपत्तिमनुभाष्य दूषयति -
यदित्यादिना ।
कर्मभूयं भूत्वा कर्मभावमनुभूयेति यावत् ।
सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यरूपत्वं कर्मणोऽभिभूयेतेत्याशङ्क्याह -
आदित्यादीति ।
माणवकेऽग्निधीवदुद्गीथादिष्वादित्यादिधियां गौणत्वादनभिभवादङ्गेष्वनङ्गधीरविरुद्धेत्यर्थः ।
यत्तु पथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या पृथिव्यादावृगादिधीरिति, तत्राह -
तदेतदिति ।
तद्दृष्टिमन्तरेणापि लक्षणोपपत्तौ पृथिव्यादावृगाद्यध्यासो न कल्पनीय इत्यर्थः ।
सम्बन्धाभावे कथं लक्षणेत्याशङ्क्याह -
लक्षणा चेति ।
शोणो धावतीत्यत्र गुणवाचिशोणशब्देन गुणी लक्ष्यत इति संनिकृष्टा लक्षणा अग्निरधीतेऽनुवाकमित्यत्राग्निशब्दस्तीव्रत्वादिगुणं लक्षयित्वा माणवकं लक्षयतीति विप्रकृष्टा । नहि साक्षादेवाग्निशब्दार्थस्य माण्वकसम्बन्धोऽस्तीत्यर्थः ।
लक्षणाद्वैविध्येऽपि प्रकृते किं जातं तदाह -
तत्रेति ।
ऋक्सामयोः पृथिव्यग्न्योश्च संनिकृष्टवास्तवसम्बन्धाभावेऽपि विप्रकृष्टेन पृथिव्याग्निबुद्धिसम्बन्धेन तयोः सम्बन्धात्तच्छब्दाभ्यां तल्लक्षणा युक्तेत्यर्थः । तथापि तयोरेव पृथिव्यग्न्योरेष तदेतदस्यामृच्यध्यूढं सामेत्यृक्सामशब्दप्रयोग इति योजना ।
मुख्यासम्भवे हेतुमाह -
प्रसिद्धयोरिति ।
ऋच्यध्यूढं हि सामेति प्रसिद्धयोः पृथगुक्तेस्तदेतदेतस्यामित्यत्रापि तयोरेवोक्तौ पौनरुक्त्यात्पृथिव्यग्न्योश्चाध्यस्तऋक्सामसंनिधानादृक्तसामशब्दयोर्लक्षणया पृथिव्यग्न्यर्थतेत्यर्थः ।
ऋचि पृथिवीधीः साम्नि चाग्निधीरित्येतावता सम्बन्धेन पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगो लाक्षणिको नोपपद्यते क्षत्तरि राजधीकरणेऽपि राजनि क्षत्तृशब्दप्रयोगादर्शनादित्युक्तमित्याशङ्क्याह -
क्षत्रिति ।
यदा राजापि क्षत्तुः सूतस्य रथनयनादि कर्माचरति तदा तत्र क्षत्तृशब्दो लक्षणया प्रयुज्यत एव । नच सति निमित्ते प्रयोगस्यावश्यकत्वं पङ्कजादिशब्दे व्यभिचारादिति भावः ।
ऋगादावेव पृथिव्यादिधीरित्यत्र हेत्वन्तरमाह -
इयमेवेति ।
एतदेव व्यतिरेकद्वारा स्फोरयति -
पृथिव्येति ।
ऋगनुवादेन पृथिवीत्वं विधेयमित्यवधारणासामर्थ्यादधिगतमित्यर्थः ।
इतश्चाङ्गेष्वनङ्गधीरित्याह -
य एवमिति ।
यत्त्वधिकरणनिर्देशादुपास्तिविषयत्वं लोकानामिति, तत्राह -
तथेति ।
यदि सामधीर्लोकेष्वारोप्येत तदा साम्नेतितृतीयार्थे द्वितीयाश्रुतिः परिणेया लोकेष्विति च सप्तमी द्वितीयार्थे कथञ्चिन्नेया, तथा सत्युभयथापि सप्तम्याः कल्प्यार्थत्वात्कल्पनालाघवाद्यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्येया । तेन पृथिव्यादिलोकबुद्ध्या हिङ्कारादिसामोपास्यम् । ततः सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया । पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।
पृथिव्याद्यात्मना हिङ्कारादेरुपास्यत्वोपदेशेन गायत्रस्यापि प्राणात्मनोपास्यत्वमुक्तमित्यतिदिशति -
एतेनेति ।
यत्र द्वितीयासप्तम्यौ तत्रास्तु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गधीः । यत्र तूभयत्र द्वितीया तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात्कथं नियमसिद्धिरित्याशङ्क्याह -
यत्रापीति ।
छान्दोग्ये हि समस्तस्य सप्तविधस्य पञ्चविधस्य च साम्नो ध्यानं साधुगुणकमित्युपक्रम्य लोकेषु पञ्चविथं सामोपासीतेति पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यादिना पञ्चविधस्य साम्नो ध्यानमुक्त्वेति तु पञ्चविधस्येत्युपसंहृत्याथ तु सप्तविधस्येत्युपक्रम्य वाचि सप्तविधं सामोपासीतेत्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवं च समस्तस्य साम्न उपासनं साध्विति साम्न एवोपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति पञ्चविधस्यापि तस्योपास्यत्वश्रुतेः साम्न्येवादित्याद्यध्यासः सिध्यतीत्यर्थः ।
यत्तु पूर्वाधिकरणन्यायेन प्रथमश्रुते चरमश्रुतमध्यस्यत इति, तत्राह -
एतस्मादिति ।
हिङ्कारोद्देशेन पृथिवीत्वविधाने हिङ्कारःपृथिवीति निर्देशो युक्तस्तस्य वैपरीत्येऽपि साम्नोऽधिकाराद्ध्येयत्वावगमादङ्गेषु हिङ्कारादिष्वेवानङ्गपृथिव्यादिदृष्टिः कार्येत्यर्थः ।
प्रथमश्रुत्यनुसाराच्चरमश्रुतं नेयमिति न्यायोऽपि द्वितीयाश्रुत्या बाध्यो दुर्बलत्वादिति मत्वोपसंहरति -
तस्मादिति ॥ ६ ॥