ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आसीनः सम्भवात् ॥ ७ ॥
कर्माङ्गसम्बद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् आसनादिचिन्तानापि सम्यग्दर्शने, वस्तुतन्त्रत्वाद्विज्ञानस्यइतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एवेति चिन्तयतितत्र मानसत्वादुपासनस्य अनियमः शरीरस्थितेरित्येवं प्राप्ते, ब्रवीतिआसीन एवोपासीतेतिकुतः ? सम्भवात्उपासनं नाम समानप्रत्ययप्रवाहकरणम् तत् गच्छतो धावतो वा सम्भवति, गत्यादीनां चित्तविक्षेपकरत्वात्तिष्ठतोऽपि देहधारणे व्यापृतं मनो सूक्ष्मवस्तुनिरीक्षणक्षमं भवतिशयानस्यापि अकस्मादेव निद्रया अभिभूयेतआसीनस्य तु एवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम् ॥ ७ ॥

अङ्गाश्रितोपासनेष्वासीनकर्मतानियमाभाववदितरोपासनास्वपि तन्नियमाभावमाशङ्क्याह -

आसीन इति ।

विषयं परिशिनष्टि -

कर्मेति ।

आदिपदेन स्थितिशयने गृह्येते । सम्यग्दर्शनशब्देन श्रवणाद्यभ्यासवासितमनःसहकृतवाक्यकृतसाक्षात्कारो निरुच्यते । अङ्गोपासनेभ्यः सम्यग्दर्शनाच्चातिरिक्तान्युपासनानि विषयीकृत्यानेकधानुष्ठानदृष्टेः संशयमाह -

इतरेष्विति ।

शास्त्रीयेषु प्रस्तुतोपासनेष्वनुष्ठानविशेषचिन्तया पादादिसङ्गतिः । पूर्वपक्षे कर्माङ्गानाश्रितोपासनेषु दैहिकनियमासिद्धिः ।

सिद्धान्ते ध्यानस्य मनोव्यापारत्वेऽपि देहानवस्थाने मनोनवस्थानात्तेषु तन्नियमसिद्धिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

मनोदेहयोर्भिन्नत्वान्मनोव्यापारमुपासनं प्रति देहव्यापारस्यानुपकारित्वादासीनेन तिष्ठता वा यथाकथञ्चिदनुष्ठेयानि प्रकृतान्युपासनानीत्यर्थः ।

अनङ्गाश्रितोपासनानां यथाकथञ्चिदनुष्ठानमिति पक्षमनूद्य सिद्धान्तयति -

एवमिति ।

प्रश्नपूर्वकं नियामकमाह -

कुत इति ।

सम्भवं बक्तुमुपासनशब्दार्थमाह -

उपासनमिति ।

तथापि कथं तदासीनस्यैवेति नियम्यते, तत्राह -

नचेति ।

तर्हि तिष्ठतो भविष्यति विक्षेपाभावात् , तत्राह -

तिष्ठतोऽपीति ।

तर्हि शयानस्य देहधारणव्यापाराभावादुपासनं स्यान्नेत्याह -

शयानस्येति ।

देहेऽनवस्थिते मनोनवस्थितेरध्वक्षत्वादासीनस्यैवोपासनमनुष्ठेयमिति परिशेषसिद्धमर्थमाह -

आसीनस्य त्विति ॥ ७ ॥