ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन्कुतः ? उपपत्तेःउपपद्यते हि एवम् अपूर्वसन्निकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिःयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयतिभवतु कर्मसमृद्धिफलेष्वेवम्; स्वतन्त्रफलेषु तु कथं एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते’ (छा. उ. २ । २ । ३) इत्यादिषु ? तेष्वपि अधिकृताधिकारात् प्रकृतापूर्वसन्निकर्षेणैव फलकल्पना युक्ता, गोदोहनादिनियमवत्फलात्मकत्वाच्च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्यः उत्कर्षोपपत्तिःआदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषुअपि ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १) खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति’ (छा. उ. १ । १ । १०) इति उद्गीथमेव उपास्यत्वेनोपक्रम्य, आदित्यादिमतीर्विदधातियत्तूक्तम्उद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्तीति, तदयुक्तम् ; स्वयमेवोपासनस्य कर्मत्वात् फलवत्त्वोपपत्तेःआदित्यादिभावेनापि दृश्यमानानामुद्गीथादीनां कर्मात्मकत्वानपायात्तदेतदेतस्यामृच्यध्यूढꣳ साम’ (छा. उ. १ । ६ । १) इति तु लाक्षणिक एव पृथिव्यग्न्योः ऋक्सामशब्दप्रयोगःलक्षणा यथासम्भवं सन्निकृष्टेन विप्रकृष्टेन वा स्वार्थसम्बन्धेन प्रवर्ततेतत्र यद्यपि ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षा, तथापि प्रसिद्धयोः ऋक्सामयोर्भेदेनानुकीर्तनात् , पृथिव्यग्न्योश्च सन्निधानात् , तयोरेव एष ऋक्सामशब्दप्रयोगः ऋक्सामसम्बन्धादिति निश्चीयतेक्षत्तृशब्दोऽपि हि कुतश्चित्कारणाद्राजानमुपसर्पन् निवारयितुं पार्यतेइयमेवर्क्’ (छा. उ. १ । ६ । १) इति यथाक्षरन्यासम् ऋच एव पृथिवीत्वमवधारयतिपृथिव्या हि ऋक्त्वेऽवधार्यमाणेइयमृगेवेत्यक्षरन्यासः स्यात् एवं विद्वान्साम गायति’ (छा. उ. १ । ७ । ९) इति अङ्गाश्रयमेव विज्ञानमुपसंहरति, पृथिव्याद्याश्रयम्तथा लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति यद्यपि सप्तमीनिर्दिष्टा लोकाः, तथापि साम्न्येव ते अध्यस्येरन् , द्वितीयानिर्देशेन साम्न उपास्यत्वावगमात्सामनि हि लोकेष्वध्यस्यमानेषु साम लोकात्मनोपासितं भवति, अन्यथा पुनः लोकाः सामात्मना उपासिताः स्युःएतेन एतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इत्यादि व्याख्यातम्यत्रापि तुल्यो द्वितीयानिर्देशः अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ९ । १) इति, तत्रापिसमस्तस्य खलु साम्न उपासनꣳ साधु’ (छा. उ. २ । १ । १) इति तु पञ्चविधस्य’ (छा. उ. २ । ७ । २) अथ सप्तविधस्य’ (छा. उ. २ । ८ । १) इति साम्न एव उपास्यत्वोपक्रमात् तस्मिन्नेव आदित्याद्यध्यासःएतस्मादेव साम्न उपास्यत्वावगमात् पृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिनिर्देशविपर्ययेऽपि हिंकारादिष्वेव पृथिव्यादिदृष्टिःतस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषूद्गीथादिषु क्षिप्येरन्निति सिद्धम् ॥ ६ ॥

अनङ्गेष्वङ्गमतिरुक्ता तथा चान्यथा नियमो निर्बीजत्वादयुक्त इति शङ्कते -

कुत इति ।

नियमहेतुमवतार्य व्याकरोति -

उपपत्तेरिति ।

यथा प्रोक्षणादिना व्रीह्यादिषु संस्कृतेषु कर्मापूर्वमुत्पद्यते तथा प्रकृतकर्मापूर्वसंनिधानादुद्गीथादीनामादित्यादिमतिभिस्तेषु संस्क्रियमाणेषु कर्मसमृद्धिरुपपद्यते, तथाच कर्मसमृद्धिफलोपपत्तेरङ्गेष्वनङ्गमतिक्षेप इत्यर्थः ।

कर्मसमृद्धिरुपास्तिफलमित्येतदेवासिद्धमित्याशङ्क्याह -

यदेवेति ।

यत्र कर्मसमृद्धिः फलं श्रूयते तत्राङ्गेष्वनङ्गमतिक्षेपोऽस्त्वादित्यादिमतिसंस्कृतानामङ्गानां कर्मातिशयहेतुत्वात्स्वतन्त्रफलेषु पुनरुपासनेषु कथं मतिक्षेपः स्यादिति विवेको नास्तीति शङ्कते -

भवत्विति ।

स्वतन्त्रफलेष्वपि तेषु प्रकृतकर्माङ्गव्यपाश्रयेणाङ्गेष्वेव मतिकरणात्फलकल्पना युक्ता कर्माधिकृतस्यैव तदङ्गसम्बन्धेषूपासनेष्वधिकारात् । यथाधिकृताधिकारेषु गोदोहनादिषु स्वतन्त्रफलेष्वपि प्रकृतकर्माङ्गावष्टम्भेनैव फलमिष्टं तथेहापीति परिहरति -

तेष्वपीति ।

यत्त्वादित्यादीनामुद्गीथादीनां चोत्कर्षविशेषानवधारणमिति, तत्राह -

फलेति ।

तदेव स्फुटयति -

आदित्यादीति ।

उपक्रमानुसारादप्यादित्यादिधीरुद्गीथादिषु कार्येत्याह -

अपिचेति ।

द्वितीयां पूर्वपक्षोपपत्तिमनुभाष्य दूषयति -

यदित्यादिना ।

कर्मभूयं भूत्वा कर्मभावमनुभूयेति यावत् ।

सिद्धरूपैरादित्यादिभिरध्यस्तैः साध्यरूपत्वं कर्मणोऽभिभूयेतेत्याशङ्क्याह -

आदित्यादीति ।

माणवकेऽग्निधीवदुद्गीथादिष्वादित्यादिधियां गौणत्वादनभिभवादङ्गेष्वनङ्गधीरविरुद्धेत्यर्थः ।

यत्तु पथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या पृथिव्यादावृगादिधीरिति, तत्राह -

तदेतदिति ।

तद्दृष्टिमन्तरेणापि लक्षणोपपत्तौ पृथिव्यादावृगाद्यध्यासो न कल्पनीय इत्यर्थः ।

सम्बन्धाभावे कथं लक्षणेत्याशङ्क्याह -

लक्षणा चेति ।

शोणो धावतीत्यत्र गुणवाचिशोणशब्देन गुणी लक्ष्यत इति संनिकृष्टा लक्षणा अग्निरधीतेऽनुवाकमित्यत्राग्निशब्दस्तीव्रत्वादिगुणं लक्षयित्वा माणवकं लक्षयतीति विप्रकृष्टा । नहि साक्षादेवाग्निशब्दार्थस्य माण्वकसम्बन्धोऽस्तीत्यर्थः ।

लक्षणाद्वैविध्येऽपि प्रकृते किं जातं तदाह -

तत्रेति ।

ऋक्सामयोः पृथिव्यग्न्योश्च संनिकृष्टवास्तवसम्बन्धाभावेऽपि विप्रकृष्टेन पृथिव्याग्निबुद्धिसम्बन्धेन तयोः सम्बन्धात्तच्छब्दाभ्यां तल्लक्षणा युक्तेत्यर्थः । तथापि तयोरेव पृथिव्यग्न्योरेष तदेतदस्यामृच्यध्यूढं सामेत्यृक्सामशब्दप्रयोग इति योजना ।

मुख्यासम्भवे हेतुमाह -

प्रसिद्धयोरिति ।

ऋच्यध्यूढं हि सामेति प्रसिद्धयोः पृथगुक्तेस्तदेतदेतस्यामित्यत्रापि तयोरेवोक्तौ पौनरुक्त्यात्पृथिव्यग्न्योश्चाध्यस्तऋक्सामसंनिधानादृक्तसामशब्दयोर्लक्षणया पृथिव्यग्न्यर्थतेत्यर्थः ।

ऋचि पृथिवीधीः साम्नि चाग्निधीरित्येतावता सम्बन्धेन पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगो लाक्षणिको नोपपद्यते क्षत्तरि राजधीकरणेऽपि राजनि क्षत्तृशब्दप्रयोगादर्शनादित्युक्तमित्याशङ्क्याह -

क्षत्रिति ।

यदा राजापि क्षत्तुः सूतस्य रथनयनादि कर्माचरति तदा तत्र क्षत्तृशब्दो लक्षणया प्रयुज्यत एव । नच सति निमित्ते प्रयोगस्यावश्यकत्वं पङ्कजादिशब्दे व्यभिचारादिति भावः ।

ऋगादावेव पृथिव्यादिधीरित्यत्र हेत्वन्तरमाह -

इयमेवेति ।

एतदेव व्यतिरेकद्वारा स्फोरयति -

पृथिव्येति ।

ऋगनुवादेन पृथिवीत्वं विधेयमित्यवधारणासामर्थ्यादधिगतमित्यर्थः ।

इतश्चाङ्गेष्वनङ्गधीरित्याह -

य एवमिति ।

यत्त्वधिकरणनिर्देशादुपास्तिविषयत्वं लोकानामिति, तत्राह -

तथेति ।

यदि सामधीर्लोकेष्वारोप्येत तदा साम्नेतितृतीयार्थे द्वितीयाश्रुतिः परिणेया लोकेष्विति च सप्तमी द्वितीयार्थे कथञ्चिन्नेया, तथा सत्युभयथापि सप्तम्याः कल्प्यार्थत्वात्कल्पनालाघवाद्यथाश्रुतद्वितीयार्थानुरोधाय तृतीयार्थे सप्तमी व्याख्येया । तेन पृथिव्यादिलोकबुद्ध्या हिङ्कारादिसामोपास्यम् । ततः सप्तमी पूर्वपक्षे द्वितीयार्था सिद्धान्ते तृतीयार्थेत्युभयथा भञ्जनीया । पूर्वपक्षे तु सामगतद्वितीयाभङ्गोऽधिक इत्यर्थः ।

पृथिव्याद्यात्मना हिङ्कारादेरुपास्यत्वोपदेशेन गायत्रस्यापि प्राणात्मनोपास्यत्वमुक्तमित्यतिदिशति -

एतेनेति ।

यत्र द्वितीयासप्तम्यौ तत्रास्तु श्रुतिद्वयभङ्गगौरवपरिहारार्थमङ्गेष्वनङ्गधीः । यत्र तूभयत्र द्वितीया तत्रान्यतरश्रुतिमात्रभङ्गस्य पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात्कथं नियमसिद्धिरित्याशङ्क्याह -

यत्रापीति ।

छान्दोग्ये हि समस्तस्य सप्तविधस्य पञ्चविधस्य च साम्नो ध्यानं साधुगुणकमित्युपक्रम्य लोकेषु पञ्चविथं सामोपासीतेति पृथिवी हिङ्कारोऽग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यादिना पञ्चविधस्य साम्नो ध्यानमुक्त्वेति तु पञ्चविधस्येत्युपसंहृत्याथ तु सप्तविधस्येत्युपक्रम्य वाचि सप्तविधं सामोपासीतेत्यादिना सप्तविधस्याप्युपासनमुक्तम् । एवं च समस्तस्य साम्न उपासनं साध्विति साम्न एवोपास्यत्वश्रुतेरिति तु पञ्चविधस्य साम्न उपासनं साध्विति पञ्चविधस्यापि तस्योपास्यत्वश्रुतेः साम्न्येवादित्याद्यध्यासः सिध्यतीत्यर्थः ।

यत्तु पूर्वाधिकरणन्यायेन प्रथमश्रुते चरमश्रुतमध्यस्यत इति, तत्राह -

एतस्मादिति ।

हिङ्कारोद्देशेन पृथिवीत्वविधाने हिङ्कारःपृथिवीति निर्देशो युक्तस्तस्य वैपरीत्येऽपि साम्नोऽधिकाराद्ध्येयत्वावगमादङ्गेषु हिङ्कारादिष्वेवानङ्गपृथिव्यादिदृष्टिः कार्येत्यर्थः ।

प्रथमश्रुत्यनुसाराच्चरमश्रुतं नेयमिति न्यायोऽपि द्वितीयाश्रुत्या बाध्यो दुर्बलत्वादिति मत्वोपसंहरति -

तस्मादिति ॥ ६ ॥