ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
एवासौ तपति तमुद्गीथमुपासीत’ (छा. उ. १ । ३ । १) लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) वाचि सप्तविधꣳ सामोपासीत’ (छा. उ. २ । ८ । १) इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्येवमादिषु अङ्गावबद्धेषूपासनेषु संशयःकिमादित्यादिषु उद्गीथादिदृष्टयो विधीयन्ते, किं वा उद्गीथादिष्वेव आदित्यादिदृष्टय इतितत्र अनियमः, नियमकारणाभावात्इति प्राप्तम् हि अत्र ब्रह्मण इव कस्यचिदुत्कर्षविशेषोऽवधार्यतेब्रह्म हि समस्तजगत्कारणत्वात् अपहतपाप्मत्वादिगुणयोगाच्च आदित्यादिभ्य उत्कृष्टमिति शक्यमवधारयितुम् तु आदित्योद्गीथादीनां विकारत्वाविशेषात् किञ्चिदुत्कर्षविशेषावधारणे कारणमस्तिअथवा नियमेनैव उद्गीथादिमतय आदित्यादिषु अध्यस्येरन्कस्मात् ? कर्मात्मकत्वादुद्गीथादीनाम् , कर्मणश्च फलप्राप्तिप्रसिद्धेःउद्गीथादिमतिभिरुपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्तितथा इयमेवर्गग्निः साम’ (छा. उ. १ । ६ । १) इत्यत्र तदेतदेतस्यामृच्यध्यूढं साम’ (छा. उ. १ । ६ । १) इति ऋक्शब्देन पृथिवीं निर्दिशति, सामशब्देनाग्निम्तच्च पृथिव्यग्न्योः ऋक्सामदृष्टिचिकीर्षायामवकल्पते, ऋक्सामयोः पृथिव्यग्निदृष्टिचिकीर्षायाम्क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते, राजनि क्षत्तृशब्दःअपि लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यमिति प्रतीयतेएतद्गायत्रं प्राणेषु प्रोतम्’ (छा. उ. २ । ११ । १) इति एतदेव दर्शयतिप्रथमनिर्दिष्टेषु आदित्यादिषु चरमनिर्दिष्टं ब्रह्माध्यस्तम्आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इत्यादिषुप्रथमनिर्दिष्टाश्च पृथिव्यादयः, चरमनिर्दिष्टा हिंकारादयःपृथिवी हिंकारः’ (छा. उ. २ । २ । १) इत्यादिश्रुतिषुअतः अनङ्गेष्वादित्यादिषु अङ्गमतिक्षेप त्येवं प्राप्ते ब्रूमः

पूर्ववदुत्कर्षरूपविशेषानवधारणादनियमेन वा गीतित्वेन क्रियारूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षादादित्यादिषु तद्दृष्टिकरणे प्रथमनिर्दिष्टानामादित्यादिषु ब्रह्मदृष्टिवत्प्राथमिकादित्यादिषूद्गीथादिदृष्टिकरणे वा प्राप्ते प्रत्याह -

आदित्यादीति ।

अङ्गाश्रितोपासनान्युदाहृत्य विशेषानुपलब्ध्या संशयमाह -

य एवेत्यादिना ।

पृथिव्याग्न्यन्तरिक्षादित्यद्युसंज्ञकेषु लोकेषु हिंकारप्रस्तावोद्गीथप्रतिहारनिधनरूपं पञ्चप्रकारं सामोपास्यं लोकदृष्ट्या तदुपास्यमित्यर्थः । वाचि सप्तविधमिति हिङ्कारप्रस्तावाद्युद्गीथप्रतिहारोपद्रवनिधनरूपं सप्तप्रकारं साम वाच्युपास्यं वाग्दृष्ट्या सामोपास्यमित्यर्थः । प्रासङ्गिकाङ्गावबद्धोपासनेषु स्वतन्त्रफलेष्वनङ्गदृष्ट्यानुष्ठाननिरूपणात्पादादिसङ्गतिः ।

पू्र्वपक्षे दृष्टिकरणस्य फलवत्त्वम् । सिद्धान्तेऽपि तदविरुद्धं सिध्यतीति । स्वीकृत्य पूर्वपक्षमाह -

तत्रेति ।

नियमकारिणः शास्त्रस्याभावादित्युक्तं व्यनक्ति -

नहीति ।

वैधर्म्यदृष्टान्तं स्पष्टयति -

ब्रह्मेति ।

अङ्गानङ्गयोरपि कस्यचिद्विशेषो गम्यतामित्याशङ्क्याह -

न त्विति ।

कर्मरूपाणामुद्गीथादीनामुत्कर्षभानमुपेत्य साक्षात्पूर्वपक्षमाह -

अथवेति ।

नियमहेतुं पृच्छति -

कस्मादिति ।

उद्गीथादिकर्माङ्गानां क्रियासमवायात्फलसाधनतयोत्कृष्टत्वादिति हेतुमाह -

कर्मेति ।

किञ्च सिद्धरूपादित्याद्यात्मना चेदुद्गीथादयो दृष्टास्तदा न फलहेतवः । यदा तूद्गीथादिदृष्ट्यादित्यादयो दृष्टास्तदा तेषामपि फलहेतुत्वं स्यादित्याह -

उद्गीथादीति ।

अनङ्गेष्वेवाङ्गमतिकर्तव्यत्वं पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगादपि भातीत्याह -

तथाचेति ।

तदेतदग्न्याख्यं सामैतस्यां पृथ्वीलक्षणायामृच्यध्यूढमुपरिश्रितमिति यावत् ।

उक्तमेव दृष्टान्तेन स्पष्टयति -

क्षत्तरीति ।

ऋचि पृथिवीदृष्टिः साम्नि चाग्निदृष्टिरिष्टा चेत्तदा प्रयोगवैपरीत्यं स्यात्तस्मात्पृथिव्यग्न्योर्ऋक्सामशब्दप्रयोगानुपपत्त्या तत्र कर्मङ्गभूतर्क्सामाध्याससिद्धिरित्यर्थः ।

ततश्चानङ्गेष्वङ्गमतिः कर्तव्येत्याह -

अपिचेति ।

सप्तम्या लोकानां सामधीविषयत्वनिर्देशादित्याह -

अधिकरणेति ।

अन्यत्रापि सप्तमीश्रुतेरनङ्गेष्वद्गधीर्भातीत्याह -

एतदिति ।

पूर्वाधिकरणसिद्धान्तन्योयेनाप्यनङ्गेष्वङ्गदृष्टिः शिष्टेत्याह -

प्रथमेति ।

आदित्यादावुद्गीथादीधीकरणात्तस्य फलवत्त्वसिद्धिरिति प्राप्तमनूद्य सिद्धान्तयति -

एवमिति ।