ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अचलत्वं चापेक्ष्य ॥ ९ ॥
अपि ध्यायतीव पृथिवी’ (छा. उ. ७ । ६ । १) इत्यत्र पृथिव्यादिषु अचलत्वमेवापेक्ष्य ध्यायतिवादो भवतितच्च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ ९ ॥

तत्रैव वैदिकं लिङ्गमाह -

अचलत्वं चेति ।

सूत्रं विभजते -

अपिचेति ॥ ९ ॥