ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्मरन्ति च ॥ १० ॥
स्मरन्त्यपि शिष्टा उपासनाङ्गत्वेन आसनम्शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः’ (भ. गी. ६ । ११) इत्यादिनाअत एव पद्मकादीनामासनविशेषाणामुपदेशो योगशास्त्रे ॥ १० ॥

आसनविधानानुपपत्त्याऽप्युपासनस्यासीनकर्मतेत्याह -

स्मारन्तीति ।

बाह्यासनविषयत्वेन सूत्रं योजयति -

स्मरन्त्यपीति ।

शारीरासनविधानविषयत्वेनापि तदेव योजयति -

अत इति

उपासनस्यासीनकर्मत्वादेवेत्यर्थः ॥ १० ॥