आसनविधानानुपपत्त्याऽप्युपासनस्यासीनकर्मतेत्याह -
स्मारन्तीति ।
बाह्यासनविषयत्वेन सूत्रं योजयति -
स्मरन्त्यपीति ।
शारीरासनविधानविषयत्वेनापि तदेव योजयति -
अत इति
उपासनस्यासीनकर्मत्वादेवेत्यर्थः ॥ १० ॥