अनङ्गाश्रितोपासनेष्वासननियमवद्दिगादिनियमोऽपि स्यादित्याशङ्क्याह -
यत्रेति ।
अनङ्गाश्रितोपासनानि विषयस्तेषु दिगादिनियमोऽस्त्युत नेति विहितेषु द्विधादृष्ट्या संशयमाह -
दिगिति ।
अङ्गोपास्त्यतिरिक्तोपास्तिषु शास्त्रीयास्वेव दिगादिनियमं विनाऽनुष्ठानक्रमचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे दिगादिनियमादेतेषु चित्तैकाग्र्यमन्तरेणानुष्ठानम् ।
सिद्धान्ते दिगादिष्वास्थाभावेऽपि प्रधानानुगुण्यादनुष्ठानमित्यङ्गीकृत्यानङ्गोपासनानि नियतदिग्देशकालानि चोदनालक्षणत्वाद्वैश्वदेववदित्याशयेन पूर्वपक्षयति -
प्रायेणेति ।
प्रदोषादिकाले प्राच्यादिदिशि तीर्थादिदेशे प्रकृतोपासनानुष्ठानमिति प्राप्ते सिद्धान्तयति -
तमिति ।
चोदनादिवशेनोक्तोपासनेषु न देशादिनियमः किन्तूपास्ये चित्तैकाग्र्यलक्षणार्थाक्षिप्त एव तन्नियम इत्युक्तं विवृणोति -
यत्रेति ।
यत्तु चोदनालक्षणत्वादित्यनुमानं तत्र श्रुतदेशादिमत्त्वमुपाधिरिति वदन्नविशेषादिति व्याचष्टे -
प्राचीनेति ।
प्राचीनप्रवणे प्राग्देशनिम्ने देशे वैश्वदेवेन यागविशेषेण यजेतेत्यादिवदत्र विशेषो न श्रूयते । ऐकाग्र्यं हि ध्यानं प्रत्यन्तरङ्गं तस्मिन्मध्याह्नादावपि सम्भवति प्रदोषाद्यपेक्षायां शेषिबाधादनियम इत्यर्थः ।
ध्यानान्तरङ्गमैकग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -
एकाग्रताया इति ।
विशेपेक्षायां शेषिबाधादनियम इत्यर्थः ।
ध्यानान्तरङ्गमैकाग्र्यमपि नियतदिगाद्यपेक्षमित्याशङ्क्य हेतोरर्थान्तरमाह -
एकाग्रताया इति ।
विशेषाश्रवणमसिद्धमिति शङ्कते -
नन्विति ।
शर्कराः सूक्ष्मपाषाणाः । जलाशयवर्जनं शीतनिवृत्त्यर्थम् । चक्षुःपीडनो मशकः । यथा श्रुतिसिद्धो विशेषस्तथान्योऽपि कालादिविशेषो ध्याने स्यादित्यर्थः ।
वाचनिके नियमे सत्येव दिगादिनियमनिरसनमित्याह -
उच्यत इति ।
तद्गतेष्विति ।
तच्छब्देन श्रौतो विशिष्टो देशो गृह्यते तस्मिन्गता विशेषास्तु प्राचीनप्रवणादयस्तन्नियमे कदाचिदेकाग्रतायोगेनोपासनायोगात्प्रधानविरोधात्तदनियमः श्रेयानित्यर्थः ।
नियमादनियमो युक्तः शेष्यानुगुण्यादित्यत्र सूत्रकारसंमतिमाह -
इति सुहृदिति ।
उक्ताऽपि हि श्रुतिरस्माकमनुकूलैवेत्याह -
मन इति ॥ ११ ॥