देशाद्यविधानात्तदपेक्षावदहङ्ग्रहोपास्तिष्वादेहपातादावृत्तेरविधानात्तदनपेक्षेत्याशङ्क्याह -
आ प्रायणादिति ।
व्यवहितेन सम्बन्धार्थं वृत्तं कीर्तयति -
आवृत्तिरिति ।
सम्प्रति सम्बन्धं वदन्विषयं विवेचयति -
तत्रेति ।
सम्यग्ज्ञाने जातेऽपि मुक्त्यर्थमावृत्तिरामरणात्कार्येत्याशङ्क्याह -
नहीति ।
नियोज्यस्याधिकारिणोऽभावान्मुक्तेश्च सम्यग्धीनान्तरीयकत्वादावृत्तिरनर्थिकेत्यर्थः ।
उक्तहेत्वभावादनुष्ठानस्योभयथादृष्टेरहङ्ग्रहोपास्तिषु संशयमाह -
यानीति ।
शास्त्रीयाहङ्ग्रहोपासनेषु स्वतन्त्रफलहेतुषु यावज्जीवमनुष्ठानमितिचिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे सर्वोपासनेष्वावृत्तेरविशेषः ।
सिद्धान्ते प्रकृतेषु विशेष इत्युपेत्य विमृश्य पूर्वपक्षयति -
किं तावदिति ।
सर्वोपासनेष्वावृत्तौ विशेषो नेति प्राप्ते प्रकृतोपासनेष्वामरणादावृत्तिः कार्येति सिद्धान्तमाह -
एवमिति ।
उपास्यापरोक्ष्ये दृष्टफले सिद्धे तद्द्वारा दृष्टफलस्यापि सिद्धेरवघातादिवदामरणादनुष्ठानमित्याह -
अन्त्येति ।
अन्त्यप्रत्ययातिरेकेणैवोपासनानां फलप्राप्तियोगान्न तादर्थ्येनावृत्तिरित्याशङ्क्याह -
कर्मणीति ।
किमत्र प्रमाणं तदाह -
सविज्ञान इति ।
विज्ञानेन भोक्तव्यफलविषयभावनामयेन सहितो म्रियमाणो भोक्ता सविज्ञानः । सविज्ञानं विज्ञानेन सहितं फलम् । यस्मिन्वषये चित्तमस्य स यच्चित्तस्तेन विषयेण हृद्यभिव्यक्तेन सह तेज उदानस्तेजोदेवताकत्वादात्मा भोक्ता ।
म्रियमाणस्य भोक्तुर्ज्ञानवत्त्वे दृष्टान्तश्रुतिरपि प्रमाणमित्याह -
तृणेति ।
यत्राप्रत्ययात्मकानामपि कर्मणामन्त्यप्रत्ययाक्षेपेण फलजनकत्वं तत्र प्रत्ययात्मकानामुपासनानां किं वक्तव्यमित्यर्थः ।
तर्हि कर्मवददृष्टद्वाराऽन्त्यप्रत्यायापेक्षोपासनानां स्यान्नेत्याह -
प्रत्ययास्त्विति ।
तेषां धारावाहिकतया दृष्टदारेणाक्षेपकत्वसम्भवे नादृष्टकल्पनेति भावः ।
सर्वभावनानां स्वावान्तरजातीयनिरपेक्षतया भावनात्मकोपासनानां न भावनान्तरापेक्षकत्वं स्वरूपसन्निधानेनैव चादृष्टफलोपयोगितेति मत्वोपसंहरति -
तस्मादिति ।
तत्रापि दृष्टमित्येतद्व्याचष्टे -
तथाचेति ।
उपासकः सर्वनामार्थः । क्रतुः सङ्कल्पविशेषः । अस्माल्लोकादभिमानतो गृहीताद्देहादिति यावत् ।
स्मार्तदर्शनमाश्रित्यापि सूत्रावयवं योजयति -
स्मृतिरिति ।
तत्रैव श्रौतदर्शनान्तरमाह -
सोऽन्तेति ।
पूर्ववदुपासकः सर्वनाम्नोक्तः । अक्षितमस्यच्युतमसि प्राणसंशितमसीति मन्त्रत्रयं स्मरेदित्यनुष्ठेयं मरणकालेऽपि दर्शयन्ती श्रुतिर्विज्ञानावृत्तिं सूचयतीत्यर्थः ॥ १२ ॥