यथोपास्तावन्तकाले कर्तव्यमस्ति न तथा ब्रह्मविद्यायां कर्तव्यं किचिदप्यस्ति तदुत्पत्तिमात्रेणाशेषपापक्षयादित्याह -
तदधिगम इति ।
साधनानुष्ठाने यत्नाधिक्यार्थं फलाध्यायेऽपि साधनसम्बद्धमनुष्ठानक्रमं विचार्य फलाध्यायस्थां फलचिन्तामेवावतारयति -
गत इति ।
दुरितमधिकृत्य तस्य फलावसानत्वप्रतीतेर्ज्ञानात्क्षयप्रतीतेश्च संशयमाह -
ब्रह्मेति ।
तद्विपरीतफलं बन्धनसाधनमित्यर्थः । अत्र साक्षादेव श्रौतब्रह्मात्मधियो दुरितक्षयफलोक्त्या पादादिसङ्गतिः । पूर्वपक्षे दुरितफलभोगमपेक्ष्य ब्रह्मधियो मोक्षहेतुत्वम् ।
सिद्धान्ते स्वोत्पत्तिनान्तरीयकत्वेन तस्यास्तद्धेतुत्वमित्युपेत्य प्रश्नपूर्वकं पूर्वपक्षयति -
किं तावदिति ।
फलनाश्यत्वाददृष्टस्य फलदानं विना नाशो नास्तीत्यर्थः ।
फलार्थत्वं कथमस्य सिद्धं, तत्राह -
फलेति ।
‘ब्राह्मणो न हन्तव्यः', ‘न कलञ्जं भक्षयेत्’ इत्यादिनिषेधानुपपत्त्या दुरितस्यानिष्टफलत्वं सिद्धमित्यर्थः ।
उक्तमेव स्फोरयति -
यदीति ।
तदित्यनिष्टकर्मोक्तिः ।
‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इतिस्मृतेरपि फलभोगं विना न नाशो दुरितस्येत्याह -
स्मरन्तीति ।
भोगादृते कर्म न क्षीयते चेत्प्रायश्चित्तविध्यानर्थक्यमिति शङ्कते -
नन्विति ।
तद्विधीनां दोषनिर्हरणार्थत्वाभावान्मैवमित्याह -
नेति ।
यथा यस्याहिताग्नेरग्निर्गृहान्दहेदिति प्राप्ते गृहदाहवत्याहिताग्नावधिकारिणि ‘अग्नयेक्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इति क्षामवतीष्टिर्विधीयते तथा पापसम्बन्धिनि नरे प्राप्ते ‘ब्रह्महा द्वादशवार्षिकं चरेत्’ इत्यादिप्रायश्चित्तानि विधीयन्ते । तस्माद्ब्रह्महेत्यादिविशेषणमधिकारिव्यावृत्तिपरं न फलपरमित्यर्थः ।
गृहदाहेष्ट्यादिवदित्यत्रादिपदेन भिन्ने जुहोति स्कन्ने जुहोतीत्यादिनैमित्तिकग्रहणं युक्तम् । गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वं दुरितनिवृत्तेस्तु कर्तुं योग्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तत्फलः स्यादित्याशङ्क्य प्रायश्चित्तानां दोषनिवृत्तिफलत्वमुपेत्य प्रकृते वैषम्यमाह -
अपिचेति ।
मोक्षशास्त्रप्रामाण्यानुपपत्त्या विद्यया दुरितनिवृत्तिरेष्टव्येति शङ्कते -
नन्विति ।
दुरितफलभोगानन्तरं शास्रप्रामाण्यादेव मोक्षसिद्धेर्न तच्छास्त्रविरोधोऽस्तीत्याह -
नेतीति ।
ब्रह्मज्ञानस्य प्रायश्चित्तेभ्यो वैषम्ये दुरितानिवर्तकत्वेऽपि मोक्षशास्त्राविरोधे च फलितमाह -
तस्मान्नेति ।