ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतःउत्तरस्य अश्लेषः, पूर्वस्य विनाशःकस्मात् ? तद्व्यपदेशात्तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशतियथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यते’ (छा. उ. ४ । १४ । ३) इतितथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशतितद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इतिअयमपरः कर्मक्षयव्यपदेशो भवतिभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाःक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इतियदुक्तम्अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहेविद्यत एव सासा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामःशक्तिसद्भावमात्रे शास्त्रं व्याप्रियते, प्रतिबन्धाप्रतिबन्धयोरपि हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् हि भोगादृते कर्म क्षीयते तदर्थत्वादितिइष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, चैनमेवं वेदइत्यादि श्रुतिस्मृतिभ्यःयत्तूक्तम्नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेःयत्पुनरेतदुक्तम् प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति, अत्र ब्रूमःसगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्तिइत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयतेनिर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिःअश्लेष इति आगामिषु कर्मसु कर्तृत्वमेव प्रतिपद्यते ब्रह्मविदिति दर्शयतिअतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव, तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याहविनाश इतिपूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्कालेइति ब्रह्मविदवगच्छतिएवमेव मोक्ष उपपद्यतेअन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति; अनित्यत्वप्रसङ्गात् , परोक्षत्वानुपपत्तेश्च ज्ञानफलस्यतस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥

न ब्रह्मविद्या दुरितनिबर्हणहेतुरिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।

विभागहेतुं प्रश्नपूर्वकमादत्ते -

कस्मादिति ।

उत्तराश्लेषविषयत्वेन हेतुं व्याचष्टे -

तथाहीति ।

निषिद्धानाचरणाद्व्यर्थं दुरिताश्लेषवचनमितिशङ्कानिरासार्थं विशिनष्टि -

सम्भाव्यमानेति ।

पूर्वस्य कर्मणोे नाशेऽपि हेतुं योजयति -

तथेति ।

सगुणविद्यायामश्लेषविनाशवचनमुदाहृत्य निर्गुणविद्यायामुदाहरति -

अयमिति ।

कर्माश्लेषस्यापि तत्क्षयवचनमुपलक्षणम् । एवं सिद्धान्तमुपपाद्य परोक्तमनुवदति -

यदुक्तमिति ।

ज्ञानात्कर्मदाहादिपक्षे शास्त्रविरोधं प्रत्याह -

नेत्यादिना ।

कर्मणो नास्ति फलदाने शक्तिरिति साधने वा शास्त्रविरोधः सत्यामेव तस्यां भोगं विना तन्निवृत्तिसाधने वेति विकल्प्याद्यं दूषयति -

नहीति ।

द्वितीयं प्रत्याह -

सा त्विति ।

कथं तर्हि शास्रविरोधसमाधिः, तत्राह -

शक्तीति ।

यत्तु ‘नाभुक्तं क्षीयते कर्म’ इत्यादिस्मृतेर्न भोगादृते कर्मक्षयोऽस्तीति, तत्राह -

नहीति ।

अपवादस्तर्हि केनोत्सर्गस्य स्यादिति, तत्राह -

इष्यत इति ।

आदिशब्देन पूर्वत्र प्रावश्चित्तवदत्र विद्योच्यते । ‘ज्ञानिनः सर्वपापानि शीर्यन्ते नात्र संशयः । क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि’ इत्याद्याः स्मृतयः ।

प्रायश्चित्तानां न पापक्षयहेतुत्वं गृहदाहेष्ट्यादिवन्नैमित्तिकत्वेन फलान्तरयोगादित्युक्तमनुवदति -

यत्त्विति ।

यथा मलिनः स्नायादित्युक्ते स्नानफलं मलनिवृत्तिर्गम्यते तथा ब्रह्महा द्वादशवर्षिकं व्रतं चरेदित्युक्ते ब्रह्महत्यानिवृत्तिर्व्रतफलं प्रतीयते तेन दृष्टत्यागेनादृष्टकल्पना न युक्तेत्याह -

तदसदिति ।

प्रायश्चित्तानां पापनिवृत्तिफलत्वेऽविद्याया न तथात्वं तद्वत्तन्निवृत्त्युद्देशेन तस्या विध्यभावादित्युक्तमनुद्रवति -

यदिति ।

दोषक्षयोद्देशेन सगुणविद्यासु वा विध्यभावो निर्गुणविद्यायां वेति विकल्प्यति -

अत्रेति ।

प्रथमं प्राह -

सगुणास्त्विति ।

तासामैश्वर्यफलत्वान्न पापक्षयोद्देशेन विधिरित्याशङ्क्याह -

तास्विति ।

विधित्सितविद्यास्तुरेव पाप्मादिनिवृत्तिश्रुतिरित्याशङ्क्याह -

तयोश्चेति ।

उभयसंयोगित्वेन विद्याविधिसम्भवादित्यर्थः ।

पाप्मदाहादिश्रुतेः स्तुत्यर्थत्वाभावे फलितमाह -

अत इति ।

द्वितीये विध्यभावमुपेत्य विद्यास्वभावादेव पापक्षयफलत्वमाह -

निर्गुणायां त्विति ।

विमतमात्मन्यशेषदुरितनिवर्तकं दुरितकर्तृत्वादिबाधकत्वात्स्वप्नदुरितकर्तृत्वादिबाधकतया तत्कालीनदुरितबाधकजाग्रद्बोधवदिति भावः ।

सर्वत्रापि दुरितनिवर्तकस्य तुल्यत्वाद्दाहाश्लेषविभागोक्तिरयुक्तेत्याशङ्क्याश्लेषोक्तेर्गतिमाह -

अश्लेष इति चेति ।

सर्वमपि व्यापारं कार्यकरणसङ्घाताश्रयं पश्यन्नविक्रियब्रह्मात्मदर्शी कर्तृत्वमेव स्वस्य न मन्यते । नच परकर्तृकेण पापेन लिप्यते स्वयमित्यर्थः ।

विद्योत्पत्तेरूर्ध्वं कर्तृत्वाभिमानाभावेऽपि प्राग्भावात्कथं कर्मनिवृत्तिरित्याशङ्क्य दाहोक्तिमुपपादयति -

अतिक्रान्तेष्विति ।

विद्याधीनं कर्मनाशं विद्यावदनुभवानुसारेण विवृणोति -

पूर्वेति ।

मोक्षशास्त्रानुपपत्त्यापि विद्याधीना पापहानिरित्याह -

एवमेवेति ।

योगप्रभावाद्युगपदनेकदेहनिर्माणेनापर्यायेण सर्वकर्मफलोपभोगे मुक्तिर्युक्तेत्याशङ्क्याह -

अन्यथेति ।

कर्मणां नियतकालविपाकत्वाद्युगपदुपभोगायोगादुपभोगस्यापि कर्मान्तरसञ्चयमन्तरेणासम्भवात्कल्पशतातिक्रमकालभोग्यानामधुना भोक्तुमयुक्तत्वाद्दीर्घकालानां च परिमितकालभोगानुपपत्तेर्न विद्यातिरेकेण निःशेषकर्मनिवृत्तिरित्यर्थः ।

सत्स्वपि कर्मान्तरेषु मोक्षहेतुकर्मवशान्मोक्षमनुभूय कर्मान्तरफलानि पश्चाद्भोक्ष्यन्त इत्याशङ्क्याह -

नचेति ।

दृष्टफलत्वाच्च विद्याया न तत्फलस्य कालान्तरापेक्षा येनोत्पन्नविद्योऽपि कर्मफलान्यनुभूय पश्चान्मुच्येतेत्याह -

परोक्षेति ।

श्रुतिस्मृतिन्यायसिद्धमुपसंहरति -

तस्मादिति ॥ १३ ॥