ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
पूर्वस्मिन्नधिकरणे बन्धहेतोरघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशान्निरूपितौधर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इत्याशङ्क्य तन्निराकरणाय पूर्वाधिकरणन्यायातिदेशः क्रियतेइतरस्यापि पुण्यस्य कर्मणः एवम् अघवत् असंश्लेषो विनाशश्च ज्ञानवतो भवतः ; कुतः ? तस्यापि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् , उभे हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्यादिश्रुतिषु दुष्कृतवत्सुकृतस्यापि प्रणाशव्यपदेशात् , अकर्त्रात्मत्वबोधनिमित्तस्य कर्मक्षयस्य सुकृतदुष्कृतयोस्तुल्यत्वात् , क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) इति अविशेषश्रुतेःयत्रापि केवल एव पाप्मशब्दः पठ्यते, तत्रापि तेनैव पुण्यमप्याकलितमिति द्रष्टव्यम् , ज्ञानापेक्षया निकृष्टफलत्वात्अस्ति श्रुतौ पुण्येऽपि पाप्मशब्दःनैनं सेतुमहोरात्रे तरतः’ (छा. उ. ८ । ४ । १) इत्यत्र सह दुष्कृतेन सुकृतमप्यनुक्रम्य, ‘सर्वे पाप्मानोऽतो निवर्तन्तेइत्यविशेषेणैव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । ‘पाते तुइति तुशब्दोऽवधारणार्थःएवं धर्माधर्मयोर्बन्धहेत्वोः विद्यासामर्थ्यादश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिरित्यवधारयति ॥ १४ ॥

ज्ञानात्पापनिवृत्तिमुक्त्वा तस्मादेव पुण्यनिवृत्तिमतिदिशति -

इतरस्यापीति ।

अधिकरणस्यापूर्वविषयतां वक्तुं वृत्तं कीर्तयति -

पूर्वस्मिन्निति ।

पुण्यं कर्म विषयस्तत्किं ब्रह्मधिया न क्षीयते क्षीयते वेति पू्र्ववत्कर्मणां फलान्तत्वप्रतीतेर्ज्ञानाद्दाहप्रतीतेश्च संशये पादादिसङ्गतिरतिदेशे पृथङ्न वाच्येति मन्वानोऽधिकां शङ्कामाह -

धर्मस्येति ।

न सुकृतज्ञाने बाध्यबाधकभूते चोदनालक्षणत्वादग्निहोत्रदर्शपूर्णमासवत् । नच क्षीयन्ते चेत्यादिविरोधस्तस्य सामान्योपाधौ प्रवृत्तस्य सर्वे पाप्मान इति विशेषानुसारेण पापकर्मणि सङ्कोचात्पूण्यपापे विधूयेति पुण्यं फलोपभोगेन पापं ज्ञानेन विधूयेति नियमतो विद्यावतः सुकृताधीनः संसारः स्यादिति भावः ।

अधिकाशङ्क्यामनूद्य सिद्धन्तयति -

इत्याशङ्क्येति ।

अतिदेशसूत्रपदानि व्याकरोति । -

इतरस्यापीति ।

शास्त्रीयत्वेन तयोर्विरोधो नास्तीत्युक्तमिति शङ्कते -

कुत इति ।

अग्निहोत्रदर्शपूर्णमासयोरविरुद्धफलत्वान्न निवर्त्यनिवर्तकभावो न शास्त्रीयत्वादित्यभिप्रेत्य हेतोरप्रयोजकत्वमाह -

तस्यापीति ।

पापं दृष्टान्तयितुमपिशब्दः ।

कालात्ययापदिष्टत्वाच्च नानुमानमित्याह -

उभे इति ।

विमतं तत्त्वधीनिवर्त्यं तद्विरुद्धत्वाद्दुरितवदितिप्रत्यनुमानविरोधाच्चायुक्तमनुमानमित्याह -

अकर्त्रात्मेति ।

सामान्यश्रुतिविरोधाच्चानुमानासिद्धिरित्याह -

क्षीयन्ते चेति ।

यत्तु सामान्यशास्त्रस्य सर्वे पाप्मान इति विशेषश्रुत्या पाप्मकर्मणि सङ्कोचः स्यादिति, तत्राह -

यत्रेति ।

पाप्मशब्दस्य निकृष्टफलकर्मविषयत्वादुत्कुष्टफलं कर्म कथं तेन गृह्यते, तत्राह -

ज्ञानेति ।

वृद्धप्रयोगाभावे कथमुपचारेणापि पाप्मशब्दः सुकृते स्यात् , तत्राह -

अस्तीति ।

तत्रापि पाप्मशब्दस्य सुकृतविषयत्वमसिद्धमित्याशङ्क्य प्रक्रममनुसृत्याह -

सहेति ।

यत्तु पुण्यपापे विधूयेत्यत्र पुण्यं फलभोगेन पापं विज्ञानेन विधूयेति विभजनं तन्नाश्रुतकल्पनाहेत्वभावादिति मत्वा ज्ञानसामर्थ्यादशेषकर्मक्षये तदश्लेषे च फलितमर्थं सूत्रावयवमवतार्य व्याकुर्वन्नाह -

पाते त्वितीति ।

एतेन फलमधिकरणयोरुक्तम् ॥ १४ ॥