ज्ञानात्पापनिवृत्तिमुक्त्वा तस्मादेव पुण्यनिवृत्तिमतिदिशति -
इतरस्यापीति ।
अधिकरणस्यापूर्वविषयतां वक्तुं वृत्तं कीर्तयति -
पूर्वस्मिन्निति ।
पुण्यं कर्म विषयस्तत्किं ब्रह्मधिया न क्षीयते क्षीयते वेति पू्र्ववत्कर्मणां फलान्तत्वप्रतीतेर्ज्ञानाद्दाहप्रतीतेश्च संशये पादादिसङ्गतिरतिदेशे पृथङ्न वाच्येति मन्वानोऽधिकां शङ्कामाह -
धर्मस्येति ।
न सुकृतज्ञाने बाध्यबाधकभूते चोदनालक्षणत्वादग्निहोत्रदर्शपूर्णमासवत् । नच क्षीयन्ते चेत्यादिविरोधस्तस्य सामान्योपाधौ प्रवृत्तस्य सर्वे पाप्मान इति विशेषानुसारेण पापकर्मणि सङ्कोचात्पूण्यपापे विधूयेति पुण्यं फलोपभोगेन पापं ज्ञानेन विधूयेति नियमतो विद्यावतः सुकृताधीनः संसारः स्यादिति भावः ।
अधिकाशङ्क्यामनूद्य सिद्धन्तयति -
इत्याशङ्क्येति ।
अतिदेशसूत्रपदानि व्याकरोति । -
इतरस्यापीति ।
शास्त्रीयत्वेन तयोर्विरोधो नास्तीत्युक्तमिति शङ्कते -
कुत इति ।
अग्निहोत्रदर्शपूर्णमासयोरविरुद्धफलत्वान्न निवर्त्यनिवर्तकभावो न शास्त्रीयत्वादित्यभिप्रेत्य हेतोरप्रयोजकत्वमाह -
तस्यापीति ।
पापं दृष्टान्तयितुमपिशब्दः ।
कालात्ययापदिष्टत्वाच्च नानुमानमित्याह -
उभे इति ।
विमतं तत्त्वधीनिवर्त्यं तद्विरुद्धत्वाद्दुरितवदितिप्रत्यनुमानविरोधाच्चायुक्तमनुमानमित्याह -
अकर्त्रात्मेति ।
सामान्यश्रुतिविरोधाच्चानुमानासिद्धिरित्याह -
क्षीयन्ते चेति ।
यत्तु सामान्यशास्त्रस्य सर्वे पाप्मान इति विशेषश्रुत्या पाप्मकर्मणि सङ्कोचः स्यादिति, तत्राह -
यत्रेति ।
पाप्मशब्दस्य निकृष्टफलकर्मविषयत्वादुत्कुष्टफलं कर्म कथं तेन गृह्यते, तत्राह -
ज्ञानेति ।
वृद्धप्रयोगाभावे कथमुपचारेणापि पाप्मशब्दः सुकृते स्यात् , तत्राह -
अस्तीति ।
तत्रापि पाप्मशब्दस्य सुकृतविषयत्वमसिद्धमित्याशङ्क्य प्रक्रममनुसृत्याह -
सहेति ।
यत्तु पुण्यपापे विधूयेत्यत्र पुण्यं फलभोगेन पापं विज्ञानेन विधूयेति विभजनं तन्नाश्रुतकल्पनाहेत्वभावादिति मत्वा ज्ञानसामर्थ्यादशेषकर्मक्षये तदश्लेषे च फलितमर्थं सूत्रावयवमवतार्य व्याकुर्वन्नाह -
पाते त्वितीति ।
एतेन फलमधिकरणयोरुक्तम् ॥ १४ ॥