तत्त्वज्ञानेन सर्वकर्मणामौत्सर्गिको लयो व्याख्यातः । संप्रत्यारब्धकर्मविषये तदपवादं दर्शयति -
अनारब्धेति ।
वृत्तं कीर्तयन्नधिकरणस्य विषयमाह -
पूर्वयोरिति ।
ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -
स किमिति ।
श्रौती ब्रह्मधीरप्रतिबद्धैव फलदेत्यभिधानात्पादादिसङ्गतिः । पूर्वपक्षे क्षेमप्राप्तेरवधिकरणासिद्धिः ।
सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चित्कालमवस्थानात्तत्सिद्धिरित्यङ्गीकृत्य पूर्वाधिकरणन्यायेनपूर्वपक्षयति -
तत्रेति ।
सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
सौत्रावधारणार्थमाह -
न त्विति ।
अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -
याभ्यामिति ।
विद्याशङ्क्त्यनुगृहीताविशेषश्रुतेर्विद्वद्देहारम्भकयोरपि कर्मणोर्नाशः स्यादित्याक्षिपति -
कुत इति ।
श्रुत्योत्तरमाह -
तस्येति ।
कथमेतावता कर्मशेषसिद्धिः, तत्राह -
इतरथेति ।
ज्ञानसमकालमेव सर्वकर्मक्षयान्मोक्षे ज्ञानमेव क्षेमप्राप्तेरवधिरिति न देहपातं तदवधिमभिदधीत । तथाच श्रुताववध्यन्तरकरणलिङ्गाज्ज्ञानादूर्ध्वमपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तदनुवृत्तेरनुपपत्तेरित्यर्थः ।
विद्याया दृष्टसामर्थ्येन कर्मक्षयहेतुत्वान्न शास्त्रेण तन्निराकरणं दृष्टविरोधिनस्तस्य ग्रावप्लवनश्रुतिवदप्रामाण्यदिति शङ्कते -
नन्विति ।
दाहकसंनिध्यविशेषे दाहव्यवस्थासिद्धिरित्यत्र दृष्टान्तमाह -
नहीति ।
तस्य तावदेव चिरमिति विदुषो देहपातावधिकरणलिङ्गम् ।
उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुतिस्मृतिलिङ्गैस्तत्त्वविद्भिरपि गुरुभिः शिष्याणां सम्बन्धान्यथानुपपत्त्या चानुगृहीतं मन्त्रादिप्रतिबद्धस्याग्नेरदाहकत्ववज्ज्ञानस्य सर्वकर्मक्षये शक्तस्याप्यारब्धकर्मनिवृत्तौ प्रतिबन्धं कल्पयतीत्याह -
उच्यत इति ।
किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -
नेति ।
नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानोत्पत्तिरित्यर्थः ।
न द्वितीयः । तथा सति ज्ञानस्योपजीव्यकर्मबाधकत्वानुपपत्तेरित्याह -
आश्रिते चेति ।
अकर्त्रात्मज्ञानं कर्मनिदानमज्ञानं निवर्तयत्युपादानाभावे च कथं कर्मानुवृत्तिः, तत्राह -
अकर्त्रात्मेति ।
कर्माण्यपीति सम्बन्धः । सोपादानानि कर्माण्युच्छिन्नानि चेत्कथमारब्धकर्मानुवृत्तिः, तत्राह -
बाधितमिति ।
स्मृतिहेतुत्वेऽपि संस्कारस्याविद्यावच्चैतन्यदोषत्वादपरोक्षभ्रमहेतुतेत्यभिप्रेत्य संस्कारवशादित्युक्तम् । विप्रतिपन्नान्प्रति जीवन्मुक्तिमुक्त्वा शिष्यान्प्रत्याह -
अपिचेति ।
जीवन्मुक्तिः सप्तम्यर्थः ।
विवादायोगे हेतुमाह -
कथं हीति ।
प्रमाणवत्त्वादपि जीवन्मुक्तिः स्वीकार्येत्याह -
श्रुतीति ।
उक्तमुत्सर्गापवादमुपसंहरति -
तस्मादिति ॥ १५ ॥