ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति, उत विशेषेणानारब्धकार्ययोरेवेति विचार्यतेतत्र उभे हैवैष एते तरति’ (बृ. उ. ४ । ४ । २२) इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय त्येवं प्राप्ते, प्रत्याहअनारब्धकार्ये एव त्वितिअप्रवृत्तफले एव पूर्वे जन्मान्तरसञ्चिते, अस्मिन्नपि जन्मनि प्राग्ज्ञानोत्पत्तेः सञ्चिते, सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते; तु आरब्धकार्ये सामिभुक्तफले, याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम्कुत एतत् ? तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति शरीरपातावधिकरणात्क्षेमप्राप्तेःइतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीततत्र शरीरपातप्रतीक्षां आचक्षीतननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत ? हि समानेऽग्निबीजसम्पर्के केषाञ्चिद्बीजशक्तिः क्षीयते, केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्तुमितिउच्यते तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यतेआश्रिते तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासम्भवात् भवति वेगक्षयप्रतिपालनम्अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्तिबाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एवअपि नैवात्र विवदितव्यम्ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते वा ध्रियत इतिकथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं अपरेण प्रतिक्षेप्तुं शक्येत ? श्रुतिस्मृतिषु स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यतेतस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः ॥ १५ ॥

तत्त्वज्ञानेन सर्वकर्मणामौत्सर्गिको लयो व्याख्यातः । संप्रत्यारब्धकर्मविषये तदपवादं दर्शयति -

अनारब्धेति ।

वृत्तं कीर्तयन्नधिकरणस्य विषयमाह -

पूर्वयोरिति ।

ज्ञानाधीनं कर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह -

स किमिति ।

श्रौती ब्रह्मधीरप्रतिबद्धैव फलदेत्यभिधानात्पादादिसङ्गतिः । पूर्वपक्षे क्षेमप्राप्तेरवधिकरणासिद्धिः ।

सिद्धान्ते विदुषोऽपि प्रारब्धकर्मणा कञ्चित्कालमवस्थानात्तत्सिद्धिरित्यङ्गीकृत्य पूर्वाधिकरणन्यायेनपूर्वपक्षयति -

तत्रेति ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

सौत्रावधारणार्थमाह -

न त्विति ।

अर्धभुक्तफले कर्मणी कार्यद्वारा विशिनष्टि -

याभ्यामिति ।

विद्याशङ्क्त्यनुगृहीताविशेषश्रुतेर्विद्वद्देहारम्भकयोरपि कर्मणोर्नाशः स्यादित्याक्षिपति -

कुत इति ।

श्रुत्योत्तरमाह -

तस्येति ।

कथमेतावता कर्मशेषसिद्धिः, तत्राह -

इतरथेति ।

ज्ञानसमकालमेव सर्वकर्मक्षयान्मोक्षे ज्ञानमेव क्षेमप्राप्तेरवधिरिति न देहपातं तदवधिमभिदधीत । तथाच श्रुताववध्यन्तरकरणलिङ्गाज्ज्ञानादूर्ध्वमपि शरीरमनुवर्तमानं कर्मशेषं गमयति तदभावे तदनुवृत्तेरनुपपत्तेरित्यर्थः ।

विद्याया दृष्टसामर्थ्येन कर्मक्षयहेतुत्वान्न शास्त्रेण तन्निराकरणं दृष्टविरोधिनस्तस्य ग्रावप्लवनश्रुतिवदप्रामाण्यदिति शङ्कते -

नन्विति ।

दाहकसंनिध्यविशेषे दाहव्यवस्थासिद्धिरित्यत्र दृष्टान्तमाह -

नहीति ।

तस्य तावदेव चिरमिति विदुषो देहपातावधिकरणलिङ्गम् ।

उद्दालकादीनां तत्त्वविदामेव देहधारणविषयैः श्रुतिस्मृतिलिङ्गैस्तत्त्वविद्भिरपि गुरुभिः शिष्याणां सम्बन्धान्यथानुपपत्त्या चानुगृहीतं मन्त्रादिप्रतिबद्धस्याग्नेरदाहकत्ववज्ज्ञानस्य सर्वकर्मक्षये शक्तस्याप्यारब्धकर्मनिवृत्तौ प्रतिबन्धं कल्पयतीत्याह -

उच्यत इति ।

किञ्च ज्ञानार्थं कर्म स्वयमेव देहमारभ्य ज्ञानं तस्मिन्करोति कर्मान्तरारब्धे वेति विकल्प्याद्यं दूषयति -

नेति ।

नहि ज्ञानार्थस्य कर्मणो देहारम्भकत्वं कल्प्यं गौरवात्तेन कर्मान्तरारब्धे देहे ज्ञानोत्पत्तिरित्यर्थः ।

न द्वितीयः । तथा सति ज्ञानस्योपजीव्यकर्मबाधकत्वानुपपत्तेरित्याह -

आश्रिते चेति ।

अकर्त्रात्मज्ञानं कर्मनिदानमज्ञानं निवर्तयत्युपादानाभावे च कथं कर्मानुवृत्तिः, तत्राह -

अकर्त्रात्मेति ।

कर्माण्यपीति सम्बन्धः । सोपादानानि कर्माण्युच्छिन्नानि चेत्कथमारब्धकर्मानुवृत्तिः, तत्राह -

बाधितमिति ।

स्मृतिहेतुत्वेऽपि संस्कारस्याविद्यावच्चैतन्यदोषत्वादपरोक्षभ्रमहेतुतेत्यभिप्रेत्य संस्कारवशादित्युक्तम् । विप्रतिपन्नान्प्रति जीवन्मुक्तिमुक्त्वा शिष्यान्प्रत्याह -

अपिचेति ।

जीवन्मुक्तिः सप्तम्यर्थः ।

विवादायोगे हेतुमाह -

कथं हीति ।

प्रमाणवत्त्वादपि जीवन्मुक्तिः स्वीकार्येत्याह -

श्रुतीति ।

उक्तमुत्सर्गापवादमुपसंहरति -

तस्मादिति ॥ १५ ॥