ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
गतस्तृतीयशेषः । अथेदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्माधिगमे सति तद्विपरीतफलं दुरितं क्षीयते, न क्षीयते वेति संशयः । किं तावत्प्राप्तम् ? फलार्थत्वात्कर्मणः फलमदत्त्वा न सम्भाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तत् अन्तरेणैव फलोपभोगमपवृज्येत, श्रुतिः कदर्थिता स्यात् । स्मरन्ति च — ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इति । नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थकः प्राप्नोति — नैष दोषः, प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेः गृहदाहेष्ट्यादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता । न त्वेवं ब्रह्मविद्यायां विधानमस्ति । नन्वनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्यावश्यभोक्तव्यत्वादनिर्मोक्षः स्यात् — नेत्युच्यते; देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मान्न ब्रह्माधिगमे दुरितनिवृत्तिरित्येवं प्राप्ते ब्रूमः —

यथोपास्तावन्तकाले कर्तव्यमस्ति न तथा ब्रह्मविद्यायां कर्तव्यं किचिदप्यस्ति तदुत्पत्तिमात्रेणाशेषपापक्षयादित्याह -

तदधिगम इति ।

साधनानुष्ठाने यत्नाधिक्यार्थं फलाध्यायेऽपि साधनसम्बद्धमनुष्ठानक्रमं विचार्य फलाध्यायस्थां फलचिन्तामेवावतारयति -

गत इति ।

दुरितमधिकृत्य तस्य फलावसानत्वप्रतीतेर्ज्ञानात्क्षयप्रतीतेश्च संशयमाह -

ब्रह्मेति ।

तद्विपरीतफलं बन्धनसाधनमित्यर्थः । अत्र साक्षादेव श्रौतब्रह्मात्मधियो दुरितक्षयफलोक्त्या पादादिसङ्गतिः । पूर्वपक्षे दुरितफलभोगमपेक्ष्य ब्रह्मधियो मोक्षहेतुत्वम् ।

सिद्धान्ते स्वोत्पत्तिनान्तरीयकत्वेन तस्यास्तद्धेतुत्वमित्युपेत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

फलनाश्यत्वाददृष्टस्य फलदानं विना नाशो नास्तीत्यर्थः ।

फलार्थत्वं कथमस्य सिद्धं, तत्राह -

फलेति ।

‘ब्राह्मणो न हन्तव्यः', ‘न कलञ्जं भक्षयेत्’ इत्यादिनिषेधानुपपत्त्या दुरितस्यानिष्टफलत्वं सिद्धमित्यर्थः ।

उक्तमेव स्फोरयति -

यदीति ।

तदित्यनिष्टकर्मोक्तिः ।

‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इतिस्मृतेरपि फलभोगं विना न नाशो दुरितस्येत्याह -

स्मरन्तीति ।

भोगादृते कर्म न क्षीयते चेत्प्रायश्चित्तविध्यानर्थक्यमिति शङ्कते -

नन्विति ।

तद्विधीनां दोषनिर्हरणार्थत्वाभावान्मैवमित्याह -

नेति ।

यथा यस्याहिताग्नेरग्निर्गृहान्दहेदिति प्राप्ते गृहदाहवत्याहिताग्नावधिकारिणि ‘अग्नयेक्षामवते पुरोडाशमष्टाकपालं निर्वपेत्’ इति क्षामवतीष्टिर्विधीयते तथा पापसम्बन्धिनि नरे प्राप्ते ‘ब्रह्महा द्वादशवार्षिकं चरेत्’ इत्यादिप्रायश्चित्तानि विधीयन्ते । तस्माद्ब्रह्महेत्यादिविशेषणमधिकारिव्यावृत्तिपरं न फलपरमित्यर्थः ।

गृहदाहेष्ट्यादिवदित्यत्रादिपदेन भिन्ने जुहोति स्कन्ने जुहोतीत्यादिनैमित्तिकग्रहणं युक्तम् । गृहदाहादेर्निष्पन्नत्वेन निष्पादयितुमशक्यत्वादधिकारिव्यावृत्त्यर्थत्वं दुरितनिवृत्तेस्तु कर्तुं योग्यत्वादिष्टसाधनत्वबोधी प्रायश्चित्तविधिस्तत्फलः स्यादित्याशङ्क्य प्रायश्चित्तानां दोषनिवृत्तिफलत्वमुपेत्य प्रकृते वैषम्यमाह -

अपिचेति ।

मोक्षशास्त्रप्रामाण्यानुपपत्त्या विद्यया दुरितनिवृत्तिरेष्टव्येति शङ्कते -

नन्विति ।

दुरितफलभोगानन्तरं शास्रप्रामाण्यादेव मोक्षसिद्धेर्न तच्छास्त्रविरोधोऽस्तीत्याह -

नेतीति ।

ब्रह्मज्ञानस्य प्रायश्चित्तेभ्यो वैषम्ये दुरितानिवर्तकत्वेऽपि मोक्षशास्त्राविरोधे च फलितमाह -

तस्मान्नेति ।