ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
तदधिगमे ब्रह्माधिगमे सति उत्तरपूर्वयोरघयोरश्लेषविनाशौ भवतः — उत्तरस्य अश्लेषः, पूर्वस्य विनाशः । कस्मात् ? तद्व्यपदेशात् । तथा हि ब्रह्मविद्याप्रक्रियायां सम्भाव्यमानसम्बन्धस्य आगामिनो दुरितस्यानभिसम्बन्धं विदुषो व्यपदिशति — ‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते’ (छा. उ. ४ । १४ । ३) इति । तथा विनाशमपि पूर्वोपचितस्य दुरितस्य व्यपदिशति — ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣳ हास्य सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इति । अयमपरः कर्मक्षयव्यपदेशो भवति — ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इति । यदुक्तम् — अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यादिति, नैष दोषः । न हि वयं कर्मणः फलदायिनीं शक्तिमवजानीमहे । विद्यत एव सा । सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते, न प्रतिबन्धाप्रतिबन्धयोरपि । ‘न हि कर्म क्षीयते’ (गौ. ध. सू. ३ । १ । ५) इत्येतदपि स्मरणमौत्सर्गिकम् — न हि भोगादृते कर्म क्षीयते तदर्थत्वादिति । इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः — ‘सर्वं पाप्मानं तरति, तरति ब्रह्महत्याम् , योऽश्वमेधेन यजते, य उ चैनमेवं वेद’ इत्यादि श्रुतिस्मृतिभ्यः । यत्तूक्तम् — नैमित्तिकानि प्रायश्चित्तानि भविष्यन्तीति, तदसत् , दोषसंयोगेन चोद्यमानानामेषां दोषनिर्घातफलसम्भवे फलान्तरकल्पनानुपपत्तेः । यत्पुनरेतदुक्तम् — न प्रायश्चित्तवत् दोषक्षयोद्देशेन विद्याविधानमस्तीति, अत्र ब्रूमः — सगुणासु तावद्विद्यासु विद्यत एव विधानम् , तासु च वाक्यशेषे ऐश्वर्यप्राप्तिः पापनिवृत्तिश्च विद्यावत उच्यते, तयोश्चाविवक्षाकारणं नास्ति — इत्यतः पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिः तासां फलमिति निश्चीयते । निर्गुणायां तु विद्यायां यद्यपि विधानं नास्ति, तथापि अकर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धिः । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मविदिति दर्शयति । अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिपेद इव, तथापि विद्यासामर्थ्यान्मिथ्याज्ञाननिवृत्तेः तान्यपि प्रविलीयन्त इत्याह — विनाश इति । पूर्वसिद्धकर्तृत्वभोक्तृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रह्माहमस्मि, नेतः पूर्वमपि कर्ता भोक्ता वा अहमासम् , नेदानीम् , नापि भविष्यत्काले — इति ब्रह्मविदवगच्छति । एवमेव च मोक्ष उपपद्यते । अन्यथा हि अनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभावः स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुमर्हति; अनित्यत्वप्रसङ्गात् , परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य । तस्मात् ब्रह्माधिगमे दुरितक्षय इति स्थितम् ॥ १३ ॥

न ब्रह्मविद्या दुरितनिबर्हणहेतुरिति प्राप्तमनूद्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां व्याकरोति -

एवमिति ।

विभागहेतुं प्रश्नपूर्वकमादत्ते -

कस्मादिति ।

उत्तराश्लेषविषयत्वेन हेतुं व्याचष्टे -

तथाहीति ।

निषिद्धानाचरणाद्व्यर्थं दुरिताश्लेषवचनमितिशङ्कानिरासार्थं विशिनष्टि -

सम्भाव्यमानेति ।

पूर्वस्य कर्मणोे नाशेऽपि हेतुं योजयति -

तथेति ।

सगुणविद्यायामश्लेषविनाशवचनमुदाहृत्य निर्गुणविद्यायामुदाहरति -

अयमिति ।

कर्माश्लेषस्यापि तत्क्षयवचनमुपलक्षणम् । एवं सिद्धान्तमुपपाद्य परोक्तमनुवदति -

यदुक्तमिति ।

ज्ञानात्कर्मदाहादिपक्षे शास्त्रविरोधं प्रत्याह -

नेत्यादिना ।

कर्मणो नास्ति फलदाने शक्तिरिति साधने वा शास्त्रविरोधः सत्यामेव तस्यां भोगं विना तन्निवृत्तिसाधने वेति विकल्प्याद्यं दूषयति -

नहीति ।

द्वितीयं प्रत्याह -

सा त्विति ।

कथं तर्हि शास्रविरोधसमाधिः, तत्राह -

शक्तीति ।

यत्तु ‘नाभुक्तं क्षीयते कर्म’ इत्यादिस्मृतेर्न भोगादृते कर्मक्षयोऽस्तीति, तत्राह -

नहीति ।

अपवादस्तर्हि केनोत्सर्गस्य स्यादिति, तत्राह -

इष्यत इति ।

आदिशब्देन पूर्वत्र प्रावश्चित्तवदत्र विद्योच्यते । ‘ज्ञानिनः सर्वपापानि शीर्यन्ते नात्र संशयः । क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि’ इत्याद्याः स्मृतयः ।

प्रायश्चित्तानां न पापक्षयहेतुत्वं गृहदाहेष्ट्यादिवन्नैमित्तिकत्वेन फलान्तरयोगादित्युक्तमनुवदति -

यत्त्विति ।

यथा मलिनः स्नायादित्युक्ते स्नानफलं मलनिवृत्तिर्गम्यते तथा ब्रह्महा द्वादशवर्षिकं व्रतं चरेदित्युक्ते ब्रह्महत्यानिवृत्तिर्व्रतफलं प्रतीयते तेन दृष्टत्यागेनादृष्टकल्पना न युक्तेत्याह -

तदसदिति ।

प्रायश्चित्तानां पापनिवृत्तिफलत्वेऽविद्याया न तथात्वं तद्वत्तन्निवृत्त्युद्देशेन तस्या विध्यभावादित्युक्तमनुद्रवति -

यदिति ।

दोषक्षयोद्देशेन सगुणविद्यासु वा विध्यभावो निर्गुणविद्यायां वेति विकल्प्यति -

अत्रेति ।

प्रथमं प्राह -

सगुणास्त्विति ।

तासामैश्वर्यफलत्वान्न पापक्षयोद्देशेन विधिरित्याशङ्क्याह -

तास्विति ।

विधित्सितविद्यास्तुरेव पाप्मादिनिवृत्तिश्रुतिरित्याशङ्क्याह -

तयोश्चेति ।

उभयसंयोगित्वेन विद्याविधिसम्भवादित्यर्थः ।

पाप्मदाहादिश्रुतेः स्तुत्यर्थत्वाभावे फलितमाह -

अत इति ।

द्वितीये विध्यभावमुपेत्य विद्यास्वभावादेव पापक्षयफलत्वमाह -

निर्गुणायां त्विति ।

विमतमात्मन्यशेषदुरितनिवर्तकं दुरितकर्तृत्वादिबाधकत्वात्स्वप्नदुरितकर्तृत्वादिबाधकतया तत्कालीनदुरितबाधकजाग्रद्बोधवदिति भावः ।

सर्वत्रापि दुरितनिवर्तकस्य तुल्यत्वाद्दाहाश्लेषविभागोक्तिरयुक्तेत्याशङ्क्याश्लेषोक्तेर्गतिमाह -

अश्लेष इति चेति ।

सर्वमपि व्यापारं कार्यकरणसङ्घाताश्रयं पश्यन्नविक्रियब्रह्मात्मदर्शी कर्तृत्वमेव स्वस्य न मन्यते । नच परकर्तृकेण पापेन लिप्यते स्वयमित्यर्थः ।

विद्योत्पत्तेरूर्ध्वं कर्तृत्वाभिमानाभावेऽपि प्राग्भावात्कथं कर्मनिवृत्तिरित्याशङ्क्य दाहोक्तिमुपपादयति -

अतिक्रान्तेष्विति ।

विद्याधीनं कर्मनाशं विद्यावदनुभवानुसारेण विवृणोति -

पूर्वेति ।

मोक्षशास्त्रानुपपत्त्यापि विद्याधीना पापहानिरित्याह -

एवमेवेति ।

योगप्रभावाद्युगपदनेकदेहनिर्माणेनापर्यायेण सर्वकर्मफलोपभोगे मुक्तिर्युक्तेत्याशङ्क्याह -

अन्यथेति ।

कर्मणां नियतकालविपाकत्वाद्युगपदुपभोगायोगादुपभोगस्यापि कर्मान्तरसञ्चयमन्तरेणासम्भवात्कल्पशतातिक्रमकालभोग्यानामधुना भोक्तुमयुक्तत्वाद्दीर्घकालानां च परिमितकालभोगानुपपत्तेर्न विद्यातिरेकेण निःशेषकर्मनिवृत्तिरित्यर्थः ।

सत्स्वपि कर्मान्तरेषु मोक्षहेतुकर्मवशान्मोक्षमनुभूय कर्मान्तरफलानि पश्चाद्भोक्ष्यन्त इत्याशङ्क्याह -

नचेति ।

दृष्टफलत्वाच्च विद्याया न तत्फलस्य कालान्तरापेक्षा येनोत्पन्नविद्योऽपि कर्मफलान्यनुभूय पश्चान्मुच्येतेत्याह -

परोक्षेति ।

श्रुतिस्मृतिन्यायसिद्धमुपसंहरति -

तस्मादिति ॥ १३ ॥