ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावत् यथाशास्त्रमुत्क्रान्तिक्रममन्वाचष्टेसमाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति

पूर्वपादान्तिमाधिकरणे निर्गुणब्रह्मसम्पत्तिरुक्ता सम्प्रति सगुणब्रह्मसम्पत्तिं निरूपयिष्यन्नुत्क्रान्तौ वागादीनां मनसि वृत्तिलयं दर्शयति -

वागिति ।

सगुणविद्याफलस्य ब्रह्मालौकिकस्यार्चिरादिगातिप्राप्यस्यानुत्क्रम्य प्राप्त्ययोगात्तदर्थमुत्क्रान्तिनिरूपणं व्यापिब्रह्मात्मभावे निर्गुणविद्याफले तन्निषेधार्थं चेत्यभिप्रेत्य पादस्याध्यायसङ्गतिमाह -

अथेति ।

निर्गुणधीफलोक्त्यानन्तर्यमथशब्दार्थः ।

विदुषो नोत्क्रान्तिरत्रैव समवनीयन्त इति श्रुतेस्तत्किमुत्क्रान्तिचिन्तयेत्याशङ्क्याह -

समानेति ।