ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
अस्ति प्रायणविषया श्रुतिःअस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्’ (छा. उ. ६ । ८ । ६) इतिकिमिह वाच एव वृत्तिमत्त्या मनसि सम्पत्तिरुच्यते, उत वाग्वृत्तेरिति विशयःतत्र वागेव तावत् मनसि सम्पद्यत इति प्राप्तम्तथा हि श्रुतिरनुगृहीता भवतिइतरथा लक्षणा स्यात्श्रुतिलक्षणाविशये श्रुतिर्न्याय्या, लक्षणातस्मात् वाच एव अयं मनसि प्रलय इति

विद्वानपरब्रह्मविदुक्तः । पादार्थं सङ्क्षिप्याद्याधिकरणस्य विषयमाह -

अस्तीति ।

प्रत्ययः प्रयाणं कुर्वत उच्चिक्रमिषोरिति यावत् ।

वाङ्मनसि सम्पद्यत इत्यत्र वाचमधिकृत्व करणव्युत्पत्त्या स्वरूपसम्पत्तिप्रतीतेर्भावव्युत्पत्त्या च स्ववृत्तिसम्पत्तिवित्तेः संशयमाह -

किमिहेति ।

श्रौतसगुणब्रह्मधीफलार्थगत्युप्रयक्तोत्क्रान्त्येकदेशनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे कारणे कार्यलयनियमासिद्धिः ।

सिद्धान्ते लौकिकपरीक्षकाभीष्टनियमसिद्धिरिति मत्वा पूर्वपक्षयति -

तत्रेति ।

तत्र वाक्शब्दश्रुतिं हेतुं करोति -

तथाहीति ।

वृत्तिमद्वाचकशब्दस्य वृत्तिमात्रपरत्वे दोषमाह -

इतरथेति ।

लक्षणापि शब्दवृत्तित्वादविरुद्धेत्याशङ्क्याह -

श्रुतीति ।

श्रुत्यनुसारिणमर्थमुपसंहरति -

तस्मादिति ।