वाचि दर्शितं न्यायं चक्षुरादिष्वतिदिशति -
अत एवेति ।
यतः प्रकृतिविकारभावाभावान्न स्वरूपलयो वाचोऽपि तु वृत्तिलयोऽत एव सवृत्तिके मनसि सत्येव सर्वाणीन्द्रियाणि तदनुवर्तन्ते न तु तत्र स्वरूपेण लीयन्त इत्यर्थः ।
सूत्राक्षराणि व्याचष्टे -
तस्मादिति ।
उत्क्रमणादूर्ध्वमिति यावत् । उपशान्तमौष्ण्यलिङ्गकं तेजोऽस्येति तथोक्तः । पुनर्भवं प्रतिपद्यत इति शेषः । तत्रापि सर्वाणीन्द्रियाणि वृत्तिद्वारेणैव मनोऽनुवर्तन्त इति सम्बन्धः ।
अत एवेत्युक्तं हेतुं सदृष्टान्तं स्पष्टयति -
वाच इवेति ।
यद्यत्राविशेषेण सर्वेन्द्रियाणां मनसि वृत्त्युपसंहारो विवक्षितस्तर्हि किमित्याद्ये सूत्रे वाचः पृथग्ग्रहणं, तत्राह -
सर्वेषामिति ॥ २ ॥