उत्क्रान्तिकालीनसत्सम्पत्तेः सावशेषत्वमुक्तम् । संप्रत्युत्क्रान्तेर्निर्गुणब्रह्मवेदिष्वभावमाह -
प्रतिषेधादिति ।
व्यवहितेन सम्बन्धं दर्शयन्नधिकरणस्य तात्पर्यमाह -
अमृतत्वं चेति ।
परब्रह्मविदं विषयत्वेनोदाहरति -
अथेति ।
मुक्तिप्रकरणोपक्रमार्थोऽथशब्दः । बाह्यविषयवैतृष्ण्यमकामत्वम् । आन्तरकामवासनाराहित्यं निष्कामत्वम् । प्राप्तपरमानन्दत्वमाप्तकामत्वम् । सर्वात्मैकदर्शित्वमात्मकामत्वम् । उत्तरमुत्तरं पूर्वस्य पूर्वस्य निमित्तमेवमकामयमानो ब्रह्मविदत्र श्रुतोऽस्तीत्यर्थः । तस्य किमुत्क्रान्तिरस्ति किंवा नास्तीति पञ्चमीषष्ठीश्रुतिभ्यां सन्देहे परब्रह्मविदो मुख्यामृत्वे गत्युत्क्रान्त्योरभावोक्तेरत्र प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे निषेधस्यान्यविषयत्वाद्विदुषोऽविदुषश्चाविशेषः ।
सिद्धान्ते शाखाद्वयेऽपि देहापादानोत्क्रान्तिनिषेधाद्विशेषसिद्धिरित्यभिप्रेत्य सिद्धान्तिनो मतनिराकरणेन पूर्वपक्षी स्वमतमाह -
नेत्यादिना ।
न तस्य प्राणा उत्क्रामन्तीति विदुषो देहादेवोत्क्रान्तिर्निषिध्यते न शारीरादिति शङ्कते -
कथमिति ।
माध्यन्दिनश्रुत्या प्रत्याह -
न तस्मादिति ।
शारीरादु्त्क्रान्तिनिषेधे का गतिः षष्ठीश्रुतेरित्याशङ्क्य पञ्चम्यन्तमाध्यन्दिनश्रुत्या षष्ठ्यन्तकाण्वश्रुतिः सम्बन्धसामान्यविषयापादानरूपसम्बन्धविशेषे व्यवस्थापनीयेत्याह -
सम्बन्धेति ।
माध्यन्दिनश्रुतावपि तस्मादिति शरीरमेव परामृश्यतामित्याशङ्क्याह -
तस्मादिति चेति ।
कस्तर्हि वाक्यार्थः ।
स्यादित्यपेक्षायामाह -
न तस्मादिति ॥ १२ ॥