ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
स्पष्टो ह्येकेषाम् ॥ १३ ॥
नैतदस्तियदुक्तम् , परब्रह्मविदोऽपि देहात् अस्त्युत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह्यपादानत्वादिति; यतो देहापादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यतेतथा हिआर्तभागप्रश्ने यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति’ (बृ. उ. ३ । २ । ११) इत्यत्र, नेति होवाच याज्ञवल्क्यः’ (बृ. उ. ३ । २ । ११) इत्यनुत्क्रान्तिपक्षं परिगृह्य, तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृतःइत्यस्यामाशङ्कायाम्अत्रैव समवनीयन्तेइति प्रविलयं प्राणानां प्रतिज्ञाय, तत्सिद्धये उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते’ (बृ. उ. ३ । २ । ११) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्त्यवधेः उच्छ्वयनादीनि समामनन्तिदेहस्य एतानि स्युः देहिनः; तत्सामान्यात् , ‘ तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेइत्यत्रापिअभेदोपचारेण देहापादानस्यैव उत्क्रमणस्य प्रतिषेधःयद्यपि प्राधान्यं देहिनःइति व्याख्येयम् , येषां पञ्चमीपाठःयेषां तु षष्ठीपाठः, तेषां विद्वत्सम्बन्धिनी उत्क्रान्तिः प्रतिषिध्यत इति, प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य, देहापादानैव सा प्रतिषिद्धा भवति, देहादुत्क्रान्तिः प्राप्ता, देहिनः; अपि चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तꣳ सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्येवमविद्वद्विषये सप्रपञ्चमुत्क्रमणं संसारगमनं दर्शयित्वा, इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति उपसंहृत्य अविद्वत्कथाम् , अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति व्यपदिश्य विद्वांसम्यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेत् , असमञ्जस एव व्यपदेशः स्यात्; तस्मात् अविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्योः विद्वद्विषये प्रतिषेधःइत्येवमेव व्याख्येयम् , व्यपदेशार्थवत्त्वाय ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मणः उत्क्रान्तिः गतिर्वा उपपद्यते, निमित्ताभावात् । ‘अत्र ब्रह्म समश्नुतेइति एवंजातीयकाः श्रुतयो गत्युत्क्रान्त्योरभावं सूचयन्ति ॥ १३ ॥

सूत्रं हेतुत्वेन व्याख्यातुं बहिरेव प्रतिज्ञामाह -

नैतदिति ।

तत्र हेतुतया सूत्रं योजयति -

यत इति ।

उपलम्भमभिनयति -

तथाहीति ।

उदस्मात्प्राणा उत्क्रामन्तीत्यत्रोत्क्रान्त्यवधिमत्त्वमस्मादित्युक्तं सशब्देन परामृश्योच्छ्वयनादिधर्मोक्तेर्यस्योच्छ्वयनाध्माने तस्यैवोत्क्रान्त्यवधित्वं देहस्येत्यर्थः ।

अथोच्छ्वयनादिधर्मजातं देहिनोऽस्तु तेन तस्यैवोत्क्रान्त्यवधित्वं नेत्याह -

देहस्येति ।

काण्वश्रुतौ निषिध्यमानोत्क्रान्तेर्देहापादानत्वेऽपि माध्यन्दिनश्रुतौ देहिन एव तदपादानत्वं तस्यैव प्राधन्यादित्याशङ्क्याह -

तदिति ।

विद्याप्रकरणत्वसामान्याद्ब्रह्मविदो देहापादानोत्क्रान्तिनिषेधः शाखाद्वयेऽपि तुल्य इत्यर्थः ।

तच्छब्देन सर्वनाम्ना देहिनः प्रधानतया परामृष्टत्वात्कुतोऽत्र देहधीरित्याशङ्क्याह -

अभेदेति ।

प्राधान्याद्देहिनस्तच्छब्दार्हत्वेऽपि देहदेिनोरभेदोपचाराद्देहिपरामर्शिसर्वनाम्ना देहस्यैव परामर्शात्तस्मादेवोत्क्रान्तिरत्र निषिद्धेति पञ्चमीपाठे व्याख्येयमित्यर्थः ।

माध्यन्दिनपाठस्य सिद्धान्तानुगुण्यमुक्त्वा काण्वपाठस्यापि तदानुगुण्यमाह -

येषां त्विति ।

न तस्येत्यादावपादानापेक्षायां चक्षुष्टो वा मूर्ध्नो वेति देहांशानामुत्क्रान्त्यपादानत्वेन प्रकृतानामिह सम्बन्धात्क्रान्तिनिषेधपरत्वाच्च वाक्यस्य न तस्य प्राणा देहांशेभ्यः सकाशादुत्क्रामन्तीति वाक्यविपरिणामादन्यथा वा प्राप्तनिषेधापातात्सम्बन्धसामान्यार्थषष्ठा्याश्च प्राणेन रक्षन्प्राणमय इत्यादिकर्तृकरणोपाध्युपहितत्वप्रकृतसम्बन्धविशेषपर्यवसानादन्यशाखास्थापादानसम्बन्धविशेषापेक्षाभावात्तस्य करणोपाधिभूताः प्राणा देहावयवेभ्यो नोत्क्रामन्तीति वाक्यार्थः स्यादित्यर्थः ।

इतश्च विद्वदुत्क्रान्तिनिषेधपरं वाक्यमित्याह -

अपिचेति ।

व्यपदेशसामर्थ्यसिद्धमुपसंहरति -

तस्मादिति ।

न केवलं मानाभावादेव गत्युत्क्रान्त्यभावः किन्तु युक्त्यभावादपीत्याह -

नचेति ।

उपपत्त्यभावे हेतुमाह -

निमित्तेति ।

गमनस्य कर्मकरणादिकारकासम्भवादित्यर्थः ।

तयोः सत्त्वे मानं नास्तीत्युक्तं तदसत्त्वे मानमस्तीत्याह -

अत्रेति ॥ १३ ॥