परब्रह्मविदो ब्रह्मणि परस्मिन्प्राणानां प्रलयो दर्शितस्तदयुक्तं तेषां पृथिव्यादिषु लयश्रवणादित्याशङ्क्याह -
तानीति ।
विद्वत्कलाप्रविलयो विषयः स किं पृथिव्यादिषु किंवा परस्मिन्नात्मनीति श्रुतिद्वयोपलब्धेः सन्देहे श्रौतविद्याफलभूतकलाविलयो ब्रह्मण्येवेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रकृतावेव विकृतिलयसिद्धिः ।
सिद्धान्ते व्यवहारतस्तथात्वेऽपि तत्त्वतो ब्रह्मणि कलाविलयोपपत्तिरिति मन्वानः सिद्धान्तमाह -
तानीति ।
उक्तार्थे प्रश्नपूर्वकं हेतुमाह -
कस्मादिति ।
यथा नद्यः समुद्रं प्राप्य प्रलीयन्त एवमेवास्य जीवस्य परितः समन्तात्सर्वतोऽनवच्छिन्नप्रत्यग्ब्रह्मद्रष्टुरिमाः स्वानुभवगम्याः प्राणश्रद्धाद्या षोडशसङ्ख्याकाः कला पुरुषायणास्तदाश्रयास्तमेव पुरुषं प्राप्य बाह्यविषयसङ्गत्यागेन तस्मिन्निष्ठाय विलयमासादयन्तीति श्रुत्यर्थः ।
अस्याधिकरणस्य पूर्वपक्षमाह -
नन्विति ।
मनः प्राणयोरेकीकरणेन कलानां पञ्चदशत्वं, प्रतिष्ठाशब्देन पृथिव्यादीनि तत्त्वानि कलाकारणान्युच्यन्ते । तथाच प्रकृतावेव विकारलय इतिन्यायानुगृहीतश्रुत्या भूतेषु विद्वत्कलाविलय इत्यर्थः ।
वस्तुस्थित्या परस्मिन्नात्मनि कलालयेऽपि व्यवहारदृष्ट्या पृथिव्यादिषु तदुक्तिरविरुद्धा तेषु विलीय तैः सह परस्मिन्नात्मनि कलानां विलयसिद्धेश्च श्रुतिद्वयमविरुद्धमित्याह -
न सा खल्विति ।
विद्वदविद्वद्दृष्ट्या श्रुतिद्वये प्रवृत्ते फलितमाह -
तस्मादिति ॥ १५ ॥