ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तानि परे तथा ह्याह ॥ १५ ॥
तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि परब्रह्मविदः तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्तेकस्मात् ? तथा हि आह श्रुतिःएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति’ (प्र. उ. ६ । ५) इतिननु गताः कलाः पञ्चदश प्रतिष्ठाः’ (मु. उ. ३ । २ । ७) इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयम् आह स्म; सा खलु व्यवहारापेक्षापार्थिवाद्याः कलाः पृथिव्यादीरेव स्वप्रकृतीरपियन्तीतिइतरा तु विद्वत्प्रतिपत्त्यपेक्षाकृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इतितस्माददोषः ॥ १५ ॥

परब्रह्मविदो ब्रह्मणि परस्मिन्प्राणानां प्रलयो दर्शितस्तदयुक्तं तेषां पृथिव्यादिषु लयश्रवणादित्याशङ्क्याह -

तानीति ।

विद्वत्कलाप्रविलयो विषयः स किं पृथिव्यादिषु किंवा परस्मिन्नात्मनीति श्रुतिद्वयोपलब्धेः सन्देहे श्रौतविद्याफलभूतकलाविलयो ब्रह्मण्येवेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे प्रकृतावेव विकृतिलयसिद्धिः ।

सिद्धान्ते व्यवहारतस्तथात्वेऽपि तत्त्वतो ब्रह्मणि कलाविलयोपपत्तिरिति मन्वानः सिद्धान्तमाह -

तानीति ।

उक्तार्थे प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

यथा नद्यः समुद्रं प्राप्य प्रलीयन्त एवमेवास्य जीवस्य परितः समन्तात्सर्वतोऽनवच्छिन्नप्रत्यग्ब्रह्मद्रष्टुरिमाः स्वानुभवगम्याः प्राणश्रद्धाद्या षोडशसङ्ख्याकाः कला पुरुषायणास्तदाश्रयास्तमेव पुरुषं प्राप्य बाह्यविषयसङ्गत्यागेन तस्मिन्निष्ठाय विलयमासादयन्तीति श्रुत्यर्थः ।

अस्याधिकरणस्य पूर्वपक्षमाह -

नन्विति ।

मनः प्राणयोरेकीकरणेन कलानां पञ्चदशत्वं, प्रतिष्ठाशब्देन पृथिव्यादीनि तत्त्वानि कलाकारणान्युच्यन्ते । तथाच प्रकृतावेव विकारलय इतिन्यायानुगृहीतश्रुत्या भूतेषु विद्वत्कलाविलय इत्यर्थः ।

वस्तुस्थित्या परस्मिन्नात्मनि कलालयेऽपि व्यवहारदृष्ट्या पृथिव्यादिषु तदुक्तिरविरुद्धा तेषु विलीय तैः सह परस्मिन्नात्मनि कलानां विलयसिद्धेश्च श्रुतिद्वयमविरुद्धमित्याह -

न सा खल्विति ।

विद्वदविद्वद्दृष्ट्या श्रुतिद्वये प्रवृत्ते फलितमाह -

तस्मादिति ॥ १५ ॥