ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अविभागो वचनात् ॥ १६ ॥
पुनर्विदुषः कलाप्रलयः किम् इतरेषामिव सावशेषो भवति, आहोस्विन्निरवशेष इतितत्र प्रलयसामान्यात् शक्त्यवशेषताप्रसक्तौ ब्रवीतिअविभागापत्तिरेवेतिकुतः ? वचनात्तथा हि कलाप्रलयमुक्त्वा वक्तिभिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते एषोऽकलोऽमृतो भवति’ (प्र. उ. ६ । ५) इतिअविद्यानिमित्तानां कलानां विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिःतस्मादविभाग एवेति ॥ १६ ॥

पृथिव्यादिद्वारा ब्रह्मण्युक्तस्य विद्वत्कलाविलयस्य निरवशेषत्वमाह -

अविभाग इति ।

प्रकृतमेव विद्वत्कलाविलयमधिकृत्य लयस्योभयथादृष्ट्या संशयमाह -

स पुनरिति ।

अत्र श्रौतधीफलभूतविद्वत्कलाविलयस्य निरवशेषत्वनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे मोक्षासिद्धिः ।

सिद्धान्ते तत्सिद्धिरित्युपेत्य पूर्वपक्षयति -

तत्रेति ।

विदुषो ब्रह्मणि कलाविलयः सावशेषः, ब्रह्मणि कलाविलयत्वादुत्क्रान्तिकालीनकलाविलयवदित्यर्थः ।

श्रुतियुक्तिविरुद्धमनुमानमिति सिद्धान्तयति -

ब्रवीतीति ।

तत्र श्रुतिविरोधं प्रश्नद्वारा दर्शयति -

कुत इति ।

नदीसमुद्रन्यायेन पुरुषे कला विलीयन्ते तासां च कलानां नामरूपे शक्त्यात्मके अपि भिद्येते विदीर्यन्ते पुरुषमात्रमवशिष्यते स च विद्वानकलः कलाविरहितः सन्नमृतो भवति, पूर्णरूपेण तिष्ठतीत्यर्थः ।

श्रुतिविरोधमनुमानस्योक्त्वा युक्तिविरोधमाह -

अविद्येति ।

अनुमाननिरासफलमुपसंहरति -

तस्मादिति ॥ १६ ॥