ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता; सम्प्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयतिसमाना आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिःइत्युक्तम्तम् इदानीं सृत्युपक्रमं दर्शयतितस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः, ओकः आयतनं हृदयम् — ‘ एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिइति श्रुतेः, तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना उत्क्रान्तिः श्रूयतेतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ (बृ. उ. ४ । ४ । २) इतिसा किमनियमेनैव विद्वदविदुषोर्भवति, अथास्ति कश्चिद्विदुषो विशेषनियमःइति विचिकित्सायाम् , श्रुत्यविशेषादनियमप्राप्तौ, आचष्टेसमानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे , मूर्धस्थानादेव विद्वान्निष्क्रामति, स्थानान्तरेभ्यस्तु इतरेकुतः ? विद्यासामर्थ्यात्यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् , नैव उत्कृष्टं लोकं लभेत, तत्र अनर्थिकैव विद्या स्यात्तच्छेषगत्यनुस्मृतियोगाच्चविद्याशेषभूता मूर्धन्यनाडीसम्बद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहितातामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम्तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति, इतराभिरितरेतथा हि हार्दविद्यां प्रकृत्य समामनन्तिशतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैकातयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६) इति ॥ १७ ॥

विद्वत्कलानां वचनादविभागापत्तिवदपरब्रह्मविदामपि चक्षुष्टो वा मूर्ध्नो वेत्यविशेषवचनाद्यया कयाचिन्नाड्या प्राणनिष्क्रमणमिति प्राप्ते प्रत्याह -

तदोकोग्रज्वलनमिति ।

वृत्तानुवादपूर्वकमुत्तराधिकरणानां तात्पर्यमाह -

समाप्तेति ।

संप्रत्यस्याधिकरणस्य वत्तमनूद्य तात्पर्यमाह -

समाना चेति ।

सूत्रभागव्याख्याद्वाराधिकरणस्य विषयमाह -

तस्येति ।

हृदयमायतनमित्यत्र मानमाह -

स इति ।

अस्तु हृदयं जीवस्यालम्बनं तथापि किं स्यादित्याशङ्क्योक्तम् -

तदग्रेति ।

अदृष्टाक्षिप्तं प्रतिपत्तव्यज्ञानं प्रद्योतः । चक्षुष्टो वेति द्वारानियमश्रुतेस्तयोर्ध्वमायन्नमृतत्वमेतीतिविशेषश्रुतेश्च संशयमाह -

सा किमिति ।

उपासकानुपासकयोरनियमेन येन केनचिद्द्वारेणोत्क्रान्तिरथवोपासकानामस्ति द्वारनियम इति विमर्शार्थः । अत्र चापरब्रह्मविदां फलार्थोत्क्रान्तेर्द्वारनियमोक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे ध्यानकृतातिशयशून्यत्वं सिद्धान्ते तत्कृतातिशयसिद्धिरिति सिद्धवत्कृत्य पूर्वपक्षमाह -

श्रुतीति ।

चक्षुष्टो वेत्याद्यविशेषश्रुतेर्यतः कुतश्चिदङ्गादुत्क्रामतीति प्राप्तमनूद्य सिद्धान्तमाह -

आचष्ट इति ।

तेन प्रद्योतेन प्रकाशितद्वारवत्त्वे चोत्क्रान्तेरिति शेषः ।

तस्य विदुषोऽविदुषश्चोच्चिक्रमिषोरेको हृदयमायतनं तस्याग्रज्वलनं प्रद्योतसंज्ञितमादौ भवति तेन प्रकाशितद्वारो विद्वानविद्वांश्चोत्क्रान्तो यद्यपीष्यते तथापि तयोरुत्क्रान्त्यपादानव्यवस्थायां हेतुं पृच्छति -

कुत इति ।

तत्र सौत्रं हेतुमवतार्य व्यतिरेकद्वारा विवृणोति -

विद्येति ।

स्थानान्तरेभ्योऽपि निष्क्रामन्नुत्कृष्टं फलमाप्नुयादित्याशङ्क्य सूत्रावयवं व्याचष्टे -

तच्छेषेति ।

स्थानान्तरेभ्यो निर्गच्छतामपि विशिष्टलोकाप्तौ विशिष्टगतिचिन्तनविधानवैयर्थ्यं स्यादित्यर्थः ।

फलितोक्तिपरत्वेनावशिष्टं सूत्रभागं व्याचष्टे -

तस्मादिति ।

उक्तव्यवस्थायां श्रुतिमाह -

तथाहीति ॥ १७ ॥