ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रश्म्यनुसारी ॥ १८ ॥
अस्ति हार्दविद्या अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इत्युपक्रम्य विहितातत्प्रक्रियायाम् अथ या एता हृदयस्य नाड्यः’ (छा. उ. ८ । ६ । १) इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसम्बन्धमुक्त्वा उक्तम्अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इतिपुनश्चोक्तम्तयोर्ध्वमायन्नमृतत्वमेति’ (छा. उ. ८ । ६ । ६) इतितस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यतेतत् किम् अविशेषेणै अहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् , आहोस्विदहन्येवइति संशये सति, अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते ॥ १८ ॥

नाडीद्वारा निष्क्रान्तस्य यदिदं रश्म्यनुसारित्वं तन्निशायामपि तुल्यमित्याह -

रश्मीति ।

प्रकरणशोधनपूर्वकं विषयमाह -

अस्तीति ।

प्रथमोऽथशब्दो दहरविद्योपक्रमार्थो द्वितीयो रश्मिनाडीसम्बन्धप्रदर्शनप्रारम्भार्थस्तृतीयस्त्वारब्धकर्मवासनानन्तर्यार्थः । एतदिति क्रियाविशेषणम् । चतुर्थोऽथशब्दस्तदेत्यर्थः ।

यत्रेति कालस्योक्तत्वात्प्रकरणशुद्धिलब्धं निगमयति -

तस्मादिति ।

मूर्धन्यनाड्या निर्गच्छतः सगुणब्रह्मविदो रश्म्यनुसारित्वं किमहन्येव किं वाहनि रात्रौ चेति रश्मिनाडीयोगस्य कालविशेषाश्रुते रात्रौ रश्म्यभावावगमाच्च संशयमाह -

तदिति ।

अत्र चापरब्रह्मविदां फलाप्तये ब्रह्मनाड्या गच्छतां रश्म्यनुसारित्वस्याविशेषवादात्पादादिसङ्गतिः । पूर्वपक्षे रात्रौ प्रेतानामहरागमनमपेक्ष्य फलप्राप्तिः ।

सिद्धान्ते स यावत्क्षिप्येदित्यादिश्रुतेस्तदैव तत्प्राप्तिरित्युपेत्य सिद्धान्तं प्रतिजानीते -

अविशेषेति ॥ १८ ॥