पृथिव्यादिद्वारा ब्रह्मण्युक्तस्य विद्वत्कलाविलयस्य निरवशेषत्वमाह -
अविभाग इति ।
प्रकृतमेव विद्वत्कलाविलयमधिकृत्य लयस्योभयथादृष्ट्या संशयमाह -
स पुनरिति ।
अत्र श्रौतधीफलभूतविद्वत्कलाविलयस्य निरवशेषत्वनिरूपणात्पादादिसङ्गतिः । पूर्वपक्षे मोक्षासिद्धिः ।
सिद्धान्ते तत्सिद्धिरित्युपेत्य पूर्वपक्षयति -
तत्रेति ।
विदुषो ब्रह्मणि कलाविलयः सावशेषः, ब्रह्मणि कलाविलयत्वादुत्क्रान्तिकालीनकलाविलयवदित्यर्थः ।
श्रुतियुक्तिविरुद्धमनुमानमिति सिद्धान्तयति -
ब्रवीतीति ।
तत्र श्रुतिविरोधं प्रश्नद्वारा दर्शयति -
कुत इति ।
नदीसमुद्रन्यायेन पुरुषे कला विलीयन्ते तासां च कलानां नामरूपे शक्त्यात्मके अपि भिद्येते विदीर्यन्ते पुरुषमात्रमवशिष्यते स च विद्वानकलः कलाविरहितः सन्नमृतो भवति, पूर्णरूपेण तिष्ठतीत्यर्थः ।
श्रुतिविरोधमनुमानस्योक्त्वा युक्तिविरोधमाह -
अविद्येति ।
अनुमाननिरासफलमुपसंहरति -
तस्मादिति ॥ १६ ॥