ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
अस्ति अहनि नाडीरश्मिसम्बन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम्रात्रौ तु प्रेतस्य स्यात् , नाडीरश्मिसम्बन्धविच्छेदात्इति चेत् , , नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात्यावद्देहभावी हि शिराकिरणसम्पर्कःदर्शयति चैतमर्थं श्रुतिःअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः’ (छा. उ. ८ । ६ । २) इतिनिदाघसमये निशास्वपि किरणानुवृत्तिरुपलभ्यते, प्रतापादिकार्यदर्शनात्स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु , शैशिरेष्विव दुर्दिनेषु । ‘अहरेवैतद्रात्रौ दधातिइति एतदेव दर्शयतियदि रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत, रश्म्यनुसारानर्थक्यं भवेत् ह्येतत् विशिष्य अधीयतेयो दिवा प्रैति, रश्मीनपेक्ष्योर्ध्वमाक्रमते, यस्तु रात्रौ सोऽनपेक्ष्यैवेतिअथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत, पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात्मृत्युकालानियमात्अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत, अहरागमेऽप्यस्य कदाचित् अरश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात् यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इति श्रुतिः अनुदीक्षां दर्शयतितस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम् ॥ १९ ॥

सूत्रावयवेन पूर्वपक्षयित्वा तदवयवेन परिहरति -

निशीति ।

तत्र पूर्वपक्षं विवृणोति -

अस्तीति ।

सिद्धान्तमवतार्य व्याचष्टे -

नेत्यादिना ।

शिरा नाड्यः ।

नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वे प्रमाणोक्तिपरं सूत्रभागमादाय विभजते -

दर्शयतीति ।

प्रतायन्ते विस्तीर्यन्ते सृप्ता गताः नाडीरश्मिसम्बन्धस्य श्रौतत्वेऽपि कुतो यावद्देहभावित्वमित्याशङ्क्य युक्तिं दर्शयति -

निदाघेति ।

चन्द्रगतप्रकाशान्यथानुपपत्त्या रात्रावस्ति सूर्यरश्मिरितिवक्तुमादिपदम् । नहि चन्द्रमस एव प्रकाशस्तस्याम्मयत्वात्तदयोगात् । तर्हि शिशिरादिष्वपि रात्रिषु किरणानुवृत्तिरुपलभ्येतेत्याशङ्क्याह -

स्तोकेति ।

यद्रात्रौ तापो दृश्यते तदहरेव रात्रौ सविता दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमित्युक्तेऽर्थे श्रुत्यन्तरमाह -

अहरेवेति ।

स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतीति नैरपेक्ष्यश्रुते रात्रौ प्रेतस्य न रश्म्यपेक्षेत्याशङ्क्याह -

यदीति ।

दिवामरणविषयमेतदित्याशङ्क्याह -

नहीति ।

तर्हि रश्म्यनुसारित्वश्रुतेरर्थवत्त्वाय विदुषो रात्रौ प्रेतस्य फलसम्बन्धो नास्ति, तत्राह -

अथ त्विति ।

नित्यवत्फलसम्बन्धितया विद्याया विधानान्न पाक्षिकफलतेत्यर्थः ।

तर्हि विदुषो मरणमहन्येवेति नियमादुक्तदोषनिवृत्तिः तत्राह -

मृत्युकालेति ।

रात्रौ मृतस्यापि तर्हि सूर्यादयपर्यन्तप्रतीक्षा स्यात् , तत्राह -

अथापीति ।

आदिशब्देन गर्तादि गृह्यते ।

यावत्तावदुपबन्धेन नैरपेक्ष्यश्रुतिविरोधाच्च न प्रतीक्षाकल्पनेत्याह -

स यावदिति ।

अपरविद्याविदो रश्म्यनुसारित्वस्याविशेषमुपसंहरति -

तस्मादिति ॥ १९ ॥