अपरविद्याफलाय देवयानं पन्थानमवतारयितुं तदङ्गभूतोत्क्रान्तिश्चिन्तिता । संप्रत्यङ्गिनं पन्थानमेव वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे प्रायणकालानियमाद्विद्याफलस्य चावश्यकत्वात्प्रतीक्षणस्य चायुक्तेर्दक्षिणायनेऽपि मृतस्य विदुषो विद्याफलाप्तिरस्तीत्युक्तम् । प्रायणकालवत्प्रयतो गतिरनियतेत्याशङ्क्य परिहरति -
अर्चिरादिनेति ।
वृत्तमनूद्य प्रकृतोत्तरमार्गमधिकरणस्य विषयत्वेनोदाहरति -
आसृतीति ।
श्रुत्यन्तरेषु भिन्नासु सृतिष्विति यावत् । संशयहेतुं श्रुतिविप्रतिपत्तिं वक्तुमनेकधेत्युक्तम् । अथेत्युत्क्रान्त्यानन्तर्योक्तिः । विरजा विरजसो रजःशब्दितब्रह्मलोकाप्तिविरोधिविधुरा इति यावत् ।
उक्तं देवयानं पन्थानमधिकृत्य श्रुतिविप्रतिपत्तिं सूचितां हेतूकृत्य संशयमाह -
तत्रेति ।
अत्रापरविद्याफलाप्तिहेतुमार्गैक्योक्त्या पादादिसङ्गतिः ।
पूर्वपक्षे मार्गबहुत्वे विकल्पः सिद्धान्ते तदैक्ये विकल्पशङ्कैव नेत्यङ्गीकृत्य पूर्वपक्षयति -
तत्रेति ।
सृतीनां मिथो भिन्नत्वे हेतुमाह -
भिन्नेति ।
नानाप्रकरणस्थत्वेऽपि विद्यावदेकत्वं किं न स्यात् , तत्राह -
भिन्नेति ।
प्रतिप्रकरणं विद्याभेदाद्गतिभेदानामपि तद्गुणत्वेन चिन्त्यानां गुणिभेदाद्भेदः स्यादित्यर्थः ।
गतिभेदे हेत्वन्तरमाह -
अपिचेति ।
किञ्च वक्राध्वना गतिमपेक्ष्यावक्रेण गतिस्त्वरावती कल्प्यत एकत्वे तु किमपेक्ष्य त्वरा स्यात्तस्माद्गतिभेदसिद्धिरित्याह -
त्वरेति ।
मार्गभेदे केनाध्वना ब्रह्मलोकाप्तिरित्याशङ्क्य समुच्चयायोगाद्व्रीह्यादिवद्विकल्पः स्यादिति मत्वाह -
तस्मादिति ।
उपास्तिभेदेषूपास्यब्रह्मैक्यवद्गुणभूतगत्यैक्यसिद्धेरर्चिरादिरेकैव गतिरित्याह -
एवमिति ।